________________
यत्सद्भावाद्धर्मो, जीवति तत्प्राणिरक्षणं श्रेष्ठम् । दूरेऽपि नागवल्यां, छिन्नायां तद्दलप्लोषः || ५६८॥ सत्या वाक्किल दयिता, धर्मस्याऽनन्यशरणललितस्य । त्यक्तरजनिः शशाङ्को यात्यस्तं भवति वाप्यमहाः ॥५६९ ॥ चोरीकारकलङ्को, नहि मृष्यति सम्पदं न विश्वासम् । क्रूरग्रहः किलर्क्षे, रक्षति वृष्टिं तथा पुष्टिम् ॥५७०॥ मैथुन सतताऽऽसक्तं वृण्वन्त्यपकीर्तिपापमरणानि । शशिनो रजनीरागाच्चिरलाञ्छनखण्डनग्रहणम् ॥५७१॥ अनियन्त्रितविपुलाऽऽशः, सविलासं नर्त्यते मनोरथकैः । गुणविधृताऽप्याशायुक्, पताकिका भ्राम्यते पवनैः ॥५७२॥
"
इत्याकर्ण्य समुद्भूतभावनाऽऽसक्तमानसः । स सम्यक्त्वं प्रपद्याऽथ, गुरून् नत्वा ययौ गृहम् ॥५७३॥
सिद्धसौवर्णपुरुषादङ्गेषु कर्त्तितादपि ।
पुन: पल्लविताद्गृह्णन् स्वर्णमाढ्यतरोऽभवत् ॥५७४॥
अष्टाऽहिकामर्हद्देवगेहेषु कारयत्यथ ।
ददाने श्रेयसि द्रव्यमारामतनये ततः ॥ ५७५ ॥
स्फुटदृष्टमहास्वप्नसूचितं तनयं सती ।
पद्मावती सहाऽऽनन्दपूरेणाऽसूत सप्रभम् ॥५७६॥ [युग्मम् ]
उत्सवं कारयामास, गायन्नृत्यद्वधूजनम् । मङ्गलध्वनिसाऽऽनन्दं, समागच्छत् सुमातृकम् ॥५७७॥ षष्टिकां जागरित्वाऽथ, सङ्गीताऽऽह्लादमेदुराम् । दशाऽहे परिपूर्णे च हृष्यद्बान्धवबन्धुरे ॥५७८|| अस्माकं दुःखमुच्छेद्य, पूरयित्वा मनोरथान् । जातोऽयमिति पुत्रस्य, पूर्णात् कलश इत्यथ ॥५७९॥
आरामनन्दनकथानकम् ।
९९