SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ततः स्नानं विधायैषोऽलङ्कृताऽभिनवाऽम्बरः । अर्हतोऽपूपुजद्भक्त्या, गेहे देवगृहेषु च ॥५५६ ॥ प्रतिलम्भ्य ततः साधूंस्तपश्चारित्रमन्दिरम् । साधर्मिकजनैः सार्धं, बुभुजेऽसौ यथारुचि ॥५५७॥ इत्थं ज्ञातस्वपुण्योऽयं, ज्ञातपत्नीसतीव्रतः । आरामतनयः पूर्णं, गार्हस्थ्यं पर्यपालयत् ॥५५८ ॥ अन्यदा बहिरुद्याने, केवली समवासरत् । तं वन्दितुमथाऽऽरामपुत्रोऽगात्तत्र सप्रियः || ५५९ || त्रिश्च प्रदक्षिणीकृत्य, ज्ञानिनं तं ननाम सः । प्राक् समासीनभव्यानां, ददौ वन्दनकं च सः ॥५६०॥ ततः शुद्धमहीपीठे, निषण्णे स वनाऽङ्गजे । पापपङ्कपयःप्रायां, प्रारेभे धर्मदेशनाम् ॥५६१॥ कृतभक्तिर्जिनेन्द्राणां नतश्चारित्रशालिनाम् । कुर्वाणश्च दयाधर्मं, सम्यक्त्वान्मोक्षमश्नुते ॥५६२॥ पुञ्जीकृतप्रकृतिकर्मवपुःकटित्रे चिक्रीडतोर्बत शुभाऽशुभयोः क्षयेण । आत्मम्भरिः स हि कवत् स्वमुखश्च यः स्यादात्मा स मर्त्यभवपट्टकलाभभोक्ता ॥५६३॥ किञ्च - दानाऽऽदिकमुपकृत्यं, सपदि जरित्वाऽक्षरद्वयीमात्रः । यत्कल्याणं धर्मस्तन्मुञ्चति गुह्यनाग इव ॥ ५६५॥ अकृतसुकृतस्य न सुखान्यतप्ततपसो न चेष्टसिद्धिश्च । नाऽशीलवतो महिमा, नहि मोक्षो मूढहृदयस्य ॥५६६|| तस्माद्धर्मे बुद्धिः, कार्याऽकार्ये विचार्य कार्यैव । अधिगम्य मानुषत्वं, जिनधर्माऽऽराधकैर्भाव्यम् ॥५६७।। ९८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy