________________
वेतालोऽपि तदा दध्यौ, हहा !! किमिदमागतम् ? । यद्रक्षाऽर्थं मया युद्धं, स कथं वह्निमाविशत् ? ॥५२०॥ इत्युभे अपि ते सैन्ये, योद्धं शैथिल्यमीयुषी । ईयतुर्नर्मदातीरे, यत्राऽऽस्ते स रुदन् जनः ॥५२१॥ अथोत्तरेण तद्विद्याधर्योर्हस्त्यादिर्जितम् । आकर्ण्य दक्षिणेनाऽथ, वेतालोच्छृङ्खलाऽऽरवम् ॥५२२॥ सम्भ्रमात्संवृताऽऽस्याऽग्रप्रावरणाऽञ्चलाः क्षणात् । दृष्ट्वा तदुभयत्राऽपि, सैन्यं नेशुभयाज्जनाः ॥५२३॥ [युग्मम्] किमेतदिति ? सम्भ्रान्ता, गत्वा दूरे स्थिता जना । विलोकन्ते समायान्ती, चितामनुबलद्वयीम् ॥५२४॥ करिष्यन्ति किमते हि ?, चितां प्रति कृतत्वराः । इति व्यात्तदृशः प्रोच्चैः, स्थानाऽऽरूढा मिथो जगुः ॥५२५॥ राजा तु सर्वसन्नाहव्यूहमाधाय सत्वरम् । योद्धं विद्याधरीसैन्यैर्बभूवाऽभिमुखः क्षणात् ॥५२६।। ततो विद्याधरीवृन्दं, तच्चितां परितः स्थितम् । वीक्षाञ्चक्रे भुवि भ्रष्टं, केकिनं कञ्चुकं तथा ॥५२७॥ अस्मद्भयादथाऽन्यस्माद्धेतोर्वा प्राविशच्चिताम् । अयं स कञ्चकस्तेयीत्यालोकिष्ट चितां दृशा ॥५२८॥ विलोक्य चाऽक्षतं तत्र, सनाथं वामतस्तया । पद्मावत्याऽप्यक्षताऽङ्गया, ह्यारामपुत्रमुत्प्रभम् ॥५२९॥ [युग्मम्] अहो ! आश्चर्यमाश्चर्य, प्रविष्टोऽग्नावपीह यत् । सप्रियोऽप्यस्ति सौवर्णाऽऽसनाऽऽसीनोऽम्भसीव सः ॥५३०॥ इत्युच्चैापिनीं श्रुत्वा, विद्याधर्योर्वरूथिनीम् । आययुः कौतुकाद्राजा, परेऽपि स्वजनाऽऽदयः ॥५३१॥
आरामनन्दनकथानकम् ।
९५