________________
जातमेतर्हि शून्यं च, जगदेतद्विनाऽनया । क्रीडासौधमियं सर्वकलानां भजते हहा !! ॥५०८॥ षड्भिः कुलकम् ।। इत्यासन्नपुरग्रामाऽऽगतलोकेषु भूरिशः । परिदेवितदीनेषु, ततः पद्मावती क्षणात् ॥५०९॥ कृत्वाऽञ्जलिपुटं पञ्चनमस्कारं शुभाऽऽशया । मनसिकृत्य निर्भीका, ददौ झम्पां चिताऽनले ॥५१०॥ युग्मम् ।। ततो लोकः समस्तोऽपि, प्रोच्चैराक्रन्ददीनवाक् । इतस्ततश्च पर्यस्तनिस्सहाऽङ्गोऽपतद्भुवि ॥५११॥ अथेत्यवसरे दृष्ट्वाऽभितो धूमाऽङ्कितं नभः । आरादायात्स आरामपुत्रो जीवन्मृतोऽभवत् ॥५१२।। क्षणाच्च नर्मदातीरे, तत्राऽऽगाद्वननन्दनः । अपश्यच्च चितां वह्निज्वालाऽऽलीढदिगन्तराम् ॥५१३॥ वस्त्राऽऽच्छादितवक्त्राऽग्रानुदश्रून् शोकविह्वलान् । वीक्ष्याऽऽत्मस्वजनान् लोकानन्यांश्च परिदेविनः ॥५१४।। ज्ञात्वा पद्मावती वह्निप्रविष्टां निजचेतसा । उत्तीर्य केकिनो मुक्त्वा, कञ्चुकं चैकतोऽवनौ ॥५१५।। ततो यद्यस्ति मे कान्ता, सतीव्रतविराजिनी । तदियं च तथाऽहं च, भूयास्व द्रुतमक्षतौ ।।५१६।। इत्युक्त्वा दयितामृत्युपातकाऽऽतङ्ककम्पवान् । अदृष्टः स्वजनैझम्पां, चितायां वनसूरदात् ॥५१७॥ ततोऽनुपदमायद्भिर्युद्ध्यमानैमिथोऽपि सः । विद्याधरीवरूथिन्या, वेतालैश्च व्यलोक्यत ॥५१८॥ अथोचतुर्विद्याधर्यावहो ! वह्निचितामयम् । प्राविशत्कथमुप्लुत्य, कञ्चुके पश्यतोहरः ॥५१९।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।