________________
पृथ्वीपुण्योच्चयेनाऽथ, मान्येन गुरुवत्त्वया । मर्कटाच्छुद्धिमानीय, स्थापिताऽहमियच्चिरम् ॥४९६।। ततस्तल्लेखनिर्दिष्टाऽवधिदिनाऽधिकोऽभवत् । यदद्याऽपि स नाऽऽयाति, तत्पत्युर्भाव्यमङ्गलम् ॥४९७।। विसृज तन्महाराज !, चितावह्निप्रवेशने । पतिहत्योत्थपाप्मा, मामाक्रामत्यभितोऽपि यत् ॥४९८॥ इति श्लथीकृताऽऽबन्धमुक्त्वा राजानमुच्चकैः । नत्वा श्वशुरवर्गस्य, पितृवर्गस्य चाऽऽदरात् ॥४९९॥ दत्त्वाऽत्यर्थमसौ दानं, दीनाऽनाथजनाय तु । श्रद्धावन्धोद्धरीभूय, पूजयित्वेष्टदेवताम् ॥५००।। अनुकूल्य सखीलोकं, क्षमयित्वा परिच्छदम् । आश्वास्य स्वकुटुम्बं चाऽऽपृच्छय श्वशुरमात्मनः ॥५०१॥ गर्हित्वा दुष्कृतं स्वस्य, सुकृतं चाऽनुमोद्य सा । सिद्धसाक्षिकमालोच्य, चचालाऽथ चितां प्रति ॥५०२॥ [चतुर्भिः कलापकम्] ततः क्रन्दति पूर्लोके, मूर्च्छति स्वसखीजने । रुदति बन्धुवर्गे चाऽनुशोचति महीपतौ ॥५०३॥ सोरस्ताडं विलिखन्त्यां, भूमौ मातरि निर्दयम् । वृक्षस्तम्बे शिरस्यास्फालयति भ्रातृपुङ्गवे ॥५०४॥ क्वेदं रूपं पुनर्भावि ?, विनयः क्वैष द्रक्ष्यते ? । क्वेदमुत्कर्ष शीलं च?, क्व चौचित्यगुणक्रमः ? ॥५०५॥ क्वेदं वात्सल्यमुज्जृम्भि ?, क्व चैषा दानशीलता ? । क्वेदं दीनकृपालुत्वं ? क्व धर्मैक्यविधायिता ? ॥५०६॥ क्व चैषा दक्षता ? क्वाऽयं वैदग्ध्यवक्तृतागुणः ? । क्व चैतत्पतिदेवत्वं ?, क्व भक्तिर्मुरुषु स्थिरा ? ॥५०७॥
आरामनन्दनकथानकम् ।