________________
वारंवारं पुरः पश्चात्पार्श्वयोनिकटं भवत् । विद्याधर्योर्बलं वीक्ष्य, स वेतालं ततोऽस्मरत् ॥४८४॥ स्मृतमात्रोऽपि वेतालः, समागात् सपरिच्छदः । मुखान्मुक्ताऽनलज्वालाध्वस्तध्वान्तकृतद्युतिः ॥४८५।। मुक्ताऽट्टहाससन्त्रासपर्यस्तपरसैनिकः । नत्वाऽऽरामसुतं प्रोचे, समादिश करोमि किम् ? ॥४८६।। स उवाच विद्याधर्योर्युद्ध्यमानो बलं स्खल । समर्प्य कञ्चुकं यावदायामि पुनरत्र भोः ! ॥४८७॥ यद्यहं नाऽधुना तत्र, पुरे स्वे यामि तन्मया । आगमेनाऽवधिः प्रोक्तः, पूर्यतेऽत्र विलम्बनात् ॥४८८॥ ततश्च मत्प्रिया प्रोद्यद्वह्निज्वाऽलाञ्चितां चिताम् । प्रविशेत्तत्त्वयाऽत्रैव, सैन्यं स्खल्यमनुव्रजत् ॥४८९॥ वेतालः प्राह कस्मिंश्चित्, पुरेऽदर्शि मयाऽप्यदः । यदेका स्त्री चितावह्नौ, प्रवेष्टुं प्रस्थिताऽभवत् ॥४९०।। ततो यदि पुनः सा ते, भाविनी दयिता खलु । तद्गच्छ त्वरितं येन, त्वत्पृष्ठिरक्षकोऽस्म्यहम् ॥४९१॥ इति वेतालकथितस्त्रीवृत्तान्तकृताऽरतिः । वामाक्षिस्पन्दनेनाऽपि, सूचितप्रेयसीमृतिः ॥४९२॥ ततश्चचाल सन्तप्तवपुश्चित्तो वनाऽङ्गजः । कीलिकायन्त्रसञ्चारजङ्घालदारुकेकिना ॥४९३॥ युग्मम् ।। इतश्च नर्मदातीरे, कान्ताऽऽगतिदिनाऽवधिम् । पूरयित्वा नृपं प्रोचे, पद्मावती कृताऽञ्जलिः ॥४९४।। राजन्नहं स्ववर्गेण, वारिताऽपि चितां प्रति । पतिमृत्युप्रायश्चित्तशुद्धये चलिताऽभवम् ॥४९५।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।