________________
तोऽष्टापदं विद्युन्माली यो हि पतिस्तयोः । ततस्ताभ्यां स्वयं चक्रे, कञ्चुके वादनिर्णयः ॥ ४७२॥
कञ्चुकग्राहिणं जित्वा, याऽत्र गृह्णाति कञ्चुकम् । तस्या एव भवेत्सैष, नाऽन्यस्याः शपथोऽत्र नौ ॥४७३ ॥ इति निर्णयमाधाय स्वस्वपैतृकपत्तिभिः । सनाथे चेलतुर्द्वे ते, तस्याऽनुपदमेव च ||४७४|| विचक्रतुः क्षणादेते, विद्याधर्यौ स्वशक्तितः । आश्वहास्तिकपादातरथकट्याचतुर्बलीम् ॥४७५॥ विद्याधर्योः प्रभावेन, चतुर्द्धाऽपि च तद्बलम् । प्रत्यारामसुतं व्योम्ना, दधावे चित्तरंहसा ||४७६॥ ततो ददृशतुर्विद्याधर्यौ दूरेऽग्रगामिनम् । आरामनन्दनं वस्त्राऽञ्चलचुम्बितकञ्चुकम् ॥४७७॥৷ मिलित्वा ते अवेष्टेतां, विद्याधर्यौ वनाऽङ्गजम् I ऊचतुश्च क्व रे ! यासि, गृहीत्वा कञ्चुकं करे ? ||४७८|| ऐक्षिष्टाऽऽरामसूर्व्योम्नि, प्लवमानमितस्ततः । विद्याधर्योर्बलं दूराद्यादः सैन्यमिवाऽम्बुधौ ||४७९ ॥
दध्यौ च न हि शक्ष्यामि, गन्तुमेतैर्वृतोऽस्मि यत् । एकश्चाऽहं कथं योक्ष्ये ?, धास्ये वा कञ्चुकं कथम् ? ||४८०||
विद्याधर्योश्च सैन्येनाऽत्यर्थमाच्छादितं नभः । भयादिवाऽर्कभासश्च, नाऽऽत्मानं दर्शयन्त्यपि ॥ ४८१ ॥
केवलं ध्वान्तसाम्राज्यमेकच्छत्रं विजृम्भते । नाऽग्रतः पश्यतो दृष्टी, दिग्मोहो भविताऽत्र मे ||४८२ ॥
भ्रान्त्वा भ्रान्त्वा पतिष्यामि, भूयो भूयोऽपि भूरिशः । विद्याधर्योर्वरूथिन्यां, तत्कुर्वे किमतः परम् ? ॥४८३॥
आरामनन्दनकथानकम् ।
९१