________________
वानर्यश्च समानीयाऽब्जिनीपत्रपुटस्थितम् । पाययन्ति स्म पानीयं, युद्धयमानान् निजान् भटान् ॥४६०॥ आरामतनयोऽप्यागाद्वेगात्तिष्ठन्ति यत्र ते । कीलप्रयोगसञ्चारात्पुङ्गवो दारुकेकिनः ॥४६१।। इतश्च युद्ध्यमानास्ते, चपेटाभिः परस्परम् । आरुक्षन् वृक्षमुत्पेतुर्दिवं विक्रमवल्गिनः ॥४६२।। अथ दैववशाद्भग्नः, कालवक्त्रो ननाश सः । प्राणानादाय मुक्त्वा तु, तत्र तान् काष्ठकेकिनः ॥४६३॥ आरामतनयः सम्यक्, कीलसञ्चारवित्ततः । आरुह्य केकिनं कञ्चिद्वैताढ्यं प्रति सोऽचलत् ॥४६४।। मनोवेगेन च स्पर्द्धमानेन काष्ठकेकिना । आरामतनयः प्राप, वैताढ्ये मङ्गलावतीम् ॥४६५॥ तुर्यभूमिगवाक्षाऽग्रपल्यङ्कन्यस्तकञ्चकम् । कथञ्चिदप्ययं ज्ञात्वा, विद्युन्मालिगृहं ययौ ॥४६६॥ विद्युन्मालिनिवासे च, कलाऽप्यारूढ एव सः । प्रविश्य कञ्चुकं दृष्ट्वा, तमादाय च निर्ययौ ॥४६७।। निर्भयत्वादवादीच्च, हट्टश्रेणिषु निर्भरम् । मदीयः कञ्चुको ह्येष, नीयते तन्मयैव हि ॥४६८॥ इत्युच्चै?षयन्नेष, निस्ससार पुराबहिः । कीलिकाकौशलान्मङ्घ, प्रतस्थे स्वपुरं प्रति ॥४६९।। अकस्मादेत्य गेहाच्च, गृहीत्वा कञ्चुकं पुनः । केक्यारूढपुमानेष, हहा !! याति द्रुतद्रुतम् ॥४७०॥ इति तारतरं विद्याधौँ ते इष्टकञ्चुके । सोरस्ताडं जनानुच्चैरूचतुर्धावत द्रुतम् ॥४७१।।
९०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।