________________
काहलां वादयामासुः, कातरप्राणहारिणीम् । एकान्ते केकिनो मुक्त्वा, चेलुस्ते च रिपून् प्रति ॥४४८॥ ज्ञात्वा प्रतिभयाद्वैरिसेनां तां बहिरागताम् । नेशुः केचिल्लताकुञ्जे, वृक्षादृक्षं ययुः परे ॥४४९।। कान्तामादाय केचिच्च, विविशुगिरिगह्वरे । फलितांऽहिपमूर्छाभिस्तस्थुस्तत्रैव केचन ॥४५०॥ नंष्ट्वा व्याघुट्य चाऽन्ये तु, वीक्षन्तेऽरीस्तरुस्थिताः । भयात्केचित्स्खलत्पादा, निपत्याऽगुः पुनस्तरुम् ॥४५१।। केचिन्नीलमुखं भूपमावृत्य शौर्यशालिनः । ऊचुर्देव ! दृढीभूय, गम्यतेऽभिरिपून् स्वयम् ॥४५२॥ वीरावरणिकां कृत्वा, गच्छामः कतिचिद्वयम् । त्वत्प्रतापाद्विषां सेनां, भङ्ख्यामो यदिदं कियत् ? ॥४५३।। समादिश यथायोग्यमेते स्मस्त्वन्निदेशगाः । येन ते राजधानीयं, शत्रुभिर्व्याप्य भज्यते ॥४५४।। लोकश्च क्षोभमापन्नः, त्यजन् पुत्रादि नश्यति । युद्धोपक्रममाधेहि, ज्ञास्यते विक्रमोऽधुना ॥४५५।। इत्थमुत्तेजितो मन्त्रिसामन्तैर्विक्रमोद्धतैः । युयुत्सुश्च स्वयं नीलमुखो राजाऽऽह मन्त्रिणः ॥४५६।। निधत्ताऽन्तःपुरं दुर्गे, सहाऽपत्यैर्यथासुखम् । मुञ्चन्तां दुर्गरक्षायै, सैन्यानि परितः स्फुटम् ॥४५७।। इत्यादिश्य च नासीरवीरवल्गितराजितः । निस्ससार स सर्वाऽभिसारतो वानराऽधिपः ॥४५८॥ ततो नासीरयोरासीद्वयोरपि महाऽऽहवः । नखानखिहताः पेतुरुभयत्राऽपि वानराः ॥४५९।।
आरामनन्दनकथानकम् ।