SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ततश्चाऽऽरामपुत्रोऽपि, पद्मावतीसतीव्रतात् । शीतीभूताऽग्निपुञ्जायाश्चिताया निरगाद्वहिः ॥५३२॥ जोच्चक्रेऽथ स राजानं, तमाश्लिक्षन्नृपो मुदा । अपृच्छच्च स स पाद्वृत्तान्तं कञ्चुकाऽऽदिकम् ॥५३३।। आनन्दसम्पदद्वैतप्रादुर्भूताऽश्रुमोदितौ । व्यात्तबाहू मुदाऽऽश्लिष्य, ननाम पितरौ पदोः ॥५३४॥ आश्लिष्याऽऽश्लिष्य पितृभ्यां, हर्षाऽश्रुमोचनच्छलात् । पुत्राऽदर्शनदुःखाय, ददे मूलाज्जलाऽञ्जलिः ॥५३५।। यतः- पुत्राऽऽगतिर्मुदामग्रे, मुदोऽन्याः पदपांशवः । पुत्राऽदर्शनदुःखेन, मृतो दशरथोऽपि हि ॥५३६।। कैश्चिदालापितः स्नेहात्, कांश्चित् स आलपन् स्वयम् । नतः कैश्चिन्ननामाऽथ, कांश्चिदारामनन्दनः ॥५३७॥ एवं पद्मावती लज्जानीरङ्गीविवृताऽऽऽनना । गुरून् दूराननामैषा, भूतलन्यस्तमस्तका ॥५३८॥ पुत्रान् प्राप्नुहि नीरोगान्, गुणिनः सम्पदाऽऽवृतान् । वन्द्या भवस्व शीलेनेत्याशिष गुरवो ददुः ।।५३९।। दृष्ट्या दृष्टाऽसि वत्से ! त्वं, भूयोऽपि शुभकर्मभिः । अभिसृत्येति साऽऽनन्दा, दृढं माताऽऽलिलिङ्ग ताम् ॥५४०॥ मुहुरस्याः प्रमोदाऽश्रु, निर्मार्ण्य निजपाणिना । चुचुम्बाऽऽस्यं सुतेभ्यो यन्मातुः पुत्र्योऽधिकं प्रियाः ॥५४१॥ ततश्च स्वसखीलोकमाश्लिष्य वक्षसा दृढम् । पद्मावती सुधास्नातेवाऽभूत् स्नेहः सखीषु यत् ॥५४२।। विद्याधर्यावथ ज्ञात्वा, वृत्तान्तं कञ्चकस्य तत् । कञ्चकं प्रति निर्बन्धं, मुक्त्वा विस्मयमीयितुः ॥५४३।। -rrrrrrrrrrrrrrrrr. ९६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy