________________
न शयाते न भुञ्जाते, कञ्चकाऽप्राप्तिदुःखतः । विद्याधौँ ततः सोऽपि, विद्याधरो व्यचिन्तयत् ॥४१३।। यद्येकस्यै प्रदास्यामि, कञ्चुकं ह्यपरा तदा । कुरुतेऽत्याहितं सोऽHस्तन्न कस्या अपि ध्रुवम् ॥४१४।। इत्येकान्ते विमुक्तोऽसौ, कञ्चकः सौरभोच्चयः । ययौ विद्याधरोऽप्यष्टापदे वन्दितुमर्हतः ॥४१५।। विद्याधरों तथैव स्तो, विना शयनभोजनम् । कथां ब्रूते विनोदाय, स्वस्वदासीजनस्तयोः ॥४१६।। इत्येतदृद्धयोगिन्यै, कथयन्तीस्तु योगिनीः । श्रुत्वाऽज्ञासीदथाऽऽरामपुत्रः कञ्चकमात्मनः ॥४१७।। इति वृत्तान्तश्रवणात्, स्थिताः स्मस्तत्र किञ्चन । भगवति ! प्रसीद त्वमपराधं क्षमस्व नः ॥४१८।। सोऽस्ति मे कञ्चकोऽद्यापि, कथं वैताढ्यपर्वते ? । सैष तस्करवृत्तान्तो, घटते मम चेतसि ॥४१९॥ यत्कृते कञ्चकप्राप्तिः, प्रीत्यै स्यात्सा मृता प्रिया । प्रियामृत्युविधायिन्या, कृतं कञ्चुकवार्तया ॥४२०।। ततो न यावदद्याऽपि, भास्वानुदयमश्नुते । तावद्विशामि तं वह्नि, क्षिप्तो यत्राऽस्ति योगिराट् ॥४२१॥ इत्यालोच्य निवृत्याऽसावागात्तत्रैव मण्डले । धगद्वह्निनि सौवर्णपुरुषीभूतयोगिनि ॥४२२॥ स्मृत्वा पञ्चनमस्कारमालोच्य निजदुष्कृतम् । जीवेषु क्षामणां दत्त्वाऽनुमोद्य सुकृतं निजम् ।।४२३।। यावत्प्रवेक्ष्यति क्षिप्रं, वह्नावारामनन्दनः । अकस्मात्तावदासन्नवृक्षाल्लेखः पुरोऽपतत् ॥४२४॥ युग्मम् ॥
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।