SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ किमेतदिति ? सम्भ्रान्तो, लेखमादाय पाणिना । उद्ग्रथ्य च समारब्धो, वाचनाय स्वचेतसा ॥४२५॥ स्वस्तिश्रीपुरपत्तनान्नरपतिर्लक्ष्मीविनोदः स्वयं, सम्बोध्याऽऽदिशतीह काननसुतं स्थाने यथानामनि । आयातोऽसि न यत्पुनस्तत इयं वह्नौ विशन्ती मया, त्वत्कान्ताऽस्ति निवारिताऽष्टदिवसीं यावत्ततस्त्वर्यताम् ॥४२६।। प्रतिदिशं त्वच्छुद्ध्यर्थं, शुकशाखामृगाऽऽदयः । प्रेषिताः सन्ति तत्कोऽपि, भूयः प्रेष्योऽत्र शुद्धिकृत् ॥४२७।। वाचयित्वेति लेखाऽर्थमवबुध्य व्यचिन्तयत् । अहो ! सत्योऽभवत्स्वप्नो, यो दृष्टः श्रेष्ठिवेश्मनि ॥४२८॥ मन्ये कदाचिन्मे कान्ता, मद्वियोगाद्धविर्भुजम् । विशन्ती सत्यतो राज्ञा, संरम्भाद्विनिवारिता ॥४२९॥ अहह !!! सत्यता कीहक्, स्वप्नस्य मिलिताऽधुना । नूनं मामनुगृह्णन्त्याऽभीष्टदेव्या स दर्शितः ॥४३०॥ कथं व्योम्नः पपातैष ?, इति वृक्षं व्यलोकयत् । शाखाऽऽसीनमपश्यच्च, क्रीडामर्कटकं निजम् ॥४३१॥ ततः शाखामृगो वृक्षादुत्तीर्य प्रणमन्नथ । गृहीतो वक्षसाऽऽरामपुत्रेण ममता ह्यसौ ॥४३२॥ दध्यौ भाग्यान्ममाऽद्याऽपि, दिष्ट्या जीवति सा प्रिया । प्रवृत्तिः कञ्चुकस्याऽपि, प्राप्ताऽस्ति दैवयोगतः ॥४३३॥ कथञ्चित्कञ्चुकं प्राप्य, प्रियायै ह्यर्पये यदि । ततश्चिताऽग्निझम्पाया, मूढमृत्युभवेन्न नौ ॥४३४॥ पुरेऽत्रैव स्ववृत्तान्ताऽऽवेदकं लेखमर्पये । शाखामृगो यथा राजे, निवेदयति यद्यथा ॥४३५॥ आरामनन्दनकथानकम् । ८७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy