________________
तैरार्घ्यंत नृपस्यैष, राजाऽप्यानन्दमीयिवान् । तुभ्यं चोपायनीचक्रे, प्रेमाऽद्वैतं दधत्त्वयि ॥४०१।। स एष प्रेम्ण उत्कर्षः, प्रियस्य दयितां प्रति । पश्यन्तीनां यदन्यासामेकस्याः प्राभृताऽर्पणम् ॥४०२॥ इति देवी निशम्याऽथ, प्रेमसर्वस्वमात्मनि । पत्युर्विचिन्त्य सन्तोषपीयूषनिर्वृताऽभवत् ॥४०३।। आदिशच्च सखीं वेगात्कञ्चकं तं समानय । परिधाय यथाऽद्यैनं, राज्ञोऽर्द्धाऽऽसनमाश्रये ॥४०४॥ सखी गत्वा गृहीत्वा तं, यावन्मार्गमुपस्थिता । तावद्विद्याधरः सोऽयं, जह्वे कञ्चकमूर्ध्वतः ॥४०५।। हर्षाद्विद्याधरो वीक्ष्य, कञ्चुकं रामणीयकम् । दध्यौ यदस्य न म्लानिश्चित्रं न सौरभच्युतिः ॥४०६।। तन्नीत्वाऽद्यैव रुष्टायाः, प्रियाया विदधाम्यहम् । ढौकने कञ्चुकं ह्येनं, येन तुष्यति सा मयि ॥४०७॥ इति विद्याधरो ध्यात्वा, क्षणादागत्य वेश्मनि । यावदर्पयिष्यत्यस्यै, तावदन्याऽथ तत्प्रिया ॥४०८।। ज्ञात्वा कञ्चकमायान्तं, पत्ये दास्या व्यजिज्ञपत् । समर्प्यः कञ्चुको मह्यमारोक्ष्याम्यन्यथा चिताम् ॥४०९॥ मयि सत्यां त्वमन्यस्यै, समर्पयसि कञ्चकम् । इदं स्वप्नेऽपि मा मंस्थाः सपत्नीp हि दुस्सहा ॥४१०॥ एतद्विद्याधरः श्रुत्वा, सन्देहाऽब्धौ ममज्ज सः । द्विभार्यस्य हि, पुंसः स्यान्न दुःखस्याऽन्तरं खलु ॥४११॥ वयस्याऽऽभ्यः स्वयं चाऽपि, भाणिते भणिते अपि । विद्याध? न मन्येते, कञ्चुकाऽऽदानमेकया ॥४१२॥
आरामनन्दनकथानकम् ।
८५