SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ योगिन्याह कथं जज्ञे, विकथा श्रुतिचापलम् ? । ता: प्राहुः श्रूयतां तर्हि, परमेश्वरि ! सादरम् ॥३८९॥ अस्तीह भरते क्षेत्रे, वैताढ्यो नाम पर्वतः । एतस्य दक्षिणश्रेणावस्ति पूर्मङ्गलावती ॥ ३९०॥ तत्र विद्याधरो विद्युन्माली नामाऽस्ति सोऽन्यदा । गच्छन्नष्टापदं व्योम्ना, प्राप हीपुरपत्तनम् ॥३९१॥ तत्राऽथ बहिरुद्याने, तत्पुरक्ष्मापवल्लभाम् 1 सखीभिः सह कुर्वाणां, जलकेलिं ददर्श सः ॥३९२॥ तिरोहितः क्षणं पश्याम्येतासां स्वैरचेष्टितम् । इति विद्याधरः शाखिशाखायां निभृतोऽभवत् ॥ ३९३॥ राजपत्न्याह साऽऽनन्दात् क्षेमङ्करि ! कुतः कथम् ? । लब्धवानार्यपुत्रोऽमुं, कञ्चुकं देवदुर्लभम् ? ॥ ३९४॥ ऊचे क्षेमङ्करी देवि !, त्वत्पुण्यैर्लब्धवान् नृपः । खादतां किल पुण्यैर्हि, जायते धावतां धनम् ||३९५॥। तथाऽपि कथयेत्येतत्, प्रोक्ता देव्याऽवदत्सखी । त्वत्पुण्यप्रेरिताश्चक्रुश्चौराः केऽप्यत्र चौरिकाम् ॥३९६॥ प्राप्तास्ते नगराऽध्यक्षैर्बद्ध्वाऽऽनीता नृपाऽग्रतः । दृष्ट्वा तान् जनता राज्ञे, व्यजिज्ञपत् कृताऽञ्जलिः ॥३९७॥ एतैर्नाथ ! पुरं सर्वं लुण्टितं खात्रदानतः । एत समस्तं हि वस्तु सम्भाव्यते विभो ! || ३९८॥ ततश्च राजा तद्वेश्म, शोधयित्वा धनं नृणाम् । यद्यस्य हि तत्तस्यैवाऽर्पयामास सुनीतिमान् ॥ ३९९ ॥ लुण्टद्भिः स्तेनवेश्मानि राजाऽध्यक्षैरवाप्यत । स एष कञ्चुकस्तत्र, सौरभव्याप्तनासिकः ||४००|l ८४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy