________________
योगी प्राह त्वया साध्यः, सौवर्णपुरुषोऽधुना । प्रवेक्ष्यत्यत्र वह्नौ यः, स भावी स्वर्णपुरुषः ॥३७७॥ इत्युक्त्वाऽऽज्यच्छटां वह्नौ, क्षिप्त्वा सा देवता ययौ । योगी चाऽऽरामपुत्रस्य, शिखां मूर्त्यभ्यमन्त्रयत् ॥३७८॥ रक्तचन्दनचर्चां च, चक्रेऽङ्गेषु यथाविधि । कण्ठे मालां तथा रक्तकणवीरस्य सोऽक्षिपत् ॥३७९॥ अभाणीच्च यदग्निं त्वं, परितो भ्राम्य निर्भयः । यथा सिद्ध्ययति मे विद्या, त्वत्प्रभावेन सात्त्विक ! ॥३८०॥
वेतालवचनं चित्ते स्मरन्नारामसूस्ततः । ध्यायन् पञ्चनमस्कारमभ्राम्यत्परितोऽनलम् ॥३८१॥ योगी च छलमादातुं, तमनुभ्राम्यति द्रुतम् । मङ्गलाऽऽवर्त्तनासत्कं, यद्वदनुचरो वरम् ॥३८२॥ कालेनाऽपि यदा वह्नौ, क्षेप्तुं तं नाऽभवत्क्षणः । विलक्षोऽभ्यग्नि चिक्षेप, योगी तं वननन्दनम् ॥३८३॥ लघुकाय: स उच्छल्य, दोर्भ्यामाङ्क्षिप्य योगिनम् । द्रष्टुं कौतुकमक्षेप्सीद्, ज्वलति ज्वलने क्षणात् ॥ ३८४॥ जातश्च तत्क्षणादेव, योगी जीवेन वर्जितः । सार्द्धषोडशसौवर्णपुरुषो द्युतिमन्दिरम् ||३८५|| तस्मिंश्च निःस्पृहोऽत्यन्तमारामतनयस्ततः । भूमौ निक्षिप्य तं कर्तुमनशनं पुरोऽचलत् ॥३८६॥ ततश्च दिशि याम्यायां, गच्छन् शुश्राव योगिनीम् । विलम्बस्तत्र किं वोऽभूच्छिष्याभ्य इति पृच्छतीम् ॥३८७|| निपत्य पादयोस्तस्याः, शिष्यास्ताः प्राहुराकुलाः । विकथा श्रुतिचापल्यमपराध्यति देवि ! नः || ३८८||
आरामनन्दनकथानकम् ।
८३