________________
उच्चैः किलकिलाऽऽरावं, विदधुश्चैकहेलया । दिशो नेशुरिवाऽऽकाशं, पुस्फोटेव तदारवात् ॥ ३६५॥ आरामतनयस्त्वेष, तथाऽस्थादकुतोभयः । ततश्चाऽऽगत्य वेतालः, कोऽपि कोपादुवाच तम् ॥३६६॥ अरे ! न भवसीदानीं, कुरु शस्त्र स्मराऽमरम् । अद्य ते यमपुर्यां हि, प्रवेशदिनमुत्तमम् ॥३६७|| इत्युक्तो वनसूस्तेन, दधावे सम्मुखस्ततः । वेतालघातं स्खलित्वा, तस्याऽङ्गे प्रविवेश सः ॥ ३६८ ॥ विक्रम्य मर्मणि स्वैरं, निहत्य मुष्टिभिर्मुहुः । वेतालः क्षमातले क्षिप्तः, सिद्धस्तेऽस्मीत्युवाच तम् ॥३६९|| ततो मुक्तः प्रणम्याऽथ, वेतालस्तं व्यजिज्ञपत् । शौर्यक्रीतोऽस्मि दासस्ते, तद्ब्रूहीष्टं करोमि किम् ? ॥३७०॥ वनसूः प्राह कष्टे त्वां, यदि स्मरामि तत्त्वया । शीघ्रमागम्य साहाय्यं कार्यं वेतालराज ! मे ||३७१ ॥
ओमिति प्रतिपद्याऽसौ, तं प्रणम्य व्रजन् पुनः । निवृत्य सहसा तस्मै, किलाऽऽप्त इत्यचीकथत् ॥३७२।। योगिनोऽस्य गिरा माऽऽस्म, भ्राम्यस्त्वं परितोऽनलम् । अन्यथा क्षेप्स्यति त्वां स, मायी वह्नौ स्वसिद्धये ॥३७३|| यतः- वर्ज्यो दूरेण खलो, मध्यगतोऽनर्थकारणं स खलु । पश्य प्रविश्य तक्रं, स्तब्ध्वा दुग्धं विमन्यति ॥ ३७४॥ इत्युदित्वा पुनर्नत्वा, वेतालोऽगान्निजाऽऽलयम् । आरामतनयोऽप्यस्थादुपसाधकमुद्धतः ॥३७५॥
ततश्च योगिना मन्त्रादाकृष्टा देवताऽगमत् । ऊचे सा योगिनं ब्रूहि, कुर्वेऽहं किमतः परम् ? ॥ ३७६||
८२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।