SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अभिगम्य मुदाऽश्रूणि, मुञ्चन् योगी जगाद तम् । मम पुण्यैस्त्वमाकृष्टोऽकस्मादत्राऽऽगतोऽसि भोः ! ॥३५३।। यन्मया ह्यधुना कृत्वा, पूर्वसेवां गुरूदितः । मन्त्रः साधयितुं सिद्धक्षेत्रेऽस्मिन्नुपचक्रमे ॥३५४॥ किन्तु सत्त्वाऽधिकः कोऽपि लब्धो नोत्तरसाधकः । तदभावादहं शक्तो, मन्त्रं साधयितुं नहि ॥३५५।। तदहं प्रार्थये त्वां हि, प्रसीद मयि सात्त्विक ! । विद्यां साधयतो मे तदुत्तरः साधको भव ॥३५६।। यतः- गताऽऽशस्याऽपि तुष्टेन, दैवेनाऽर्थः समर्थ्यते । मूर्छापर्यस्तमम्भोजं, पश्य जीवति भास्करात् ॥३५७॥ इत्युक्तो योगिनाऽत्यर्थमारामतनयस्ततः । दध्यौ चिन्तितपूर्वो मे, पूर्णो मृत्युमनोरथः ॥३५८।। साधयिष्यति योगीन्द्रो, विद्यां च तत्र भाविनः । विघ्नांस्तान् रक्षयतो मे, वेतालेभ्यः सुखान्मृतिः ॥३५९॥ प्रतिशृणोमि योगीन्द्रवाचं द्रागिति निश्चयात् । आरामतनयः प्रोचे, योगिनं चाऽस्मि तेऽनुगः ॥३६०॥ इति तद्वाक्यपीयूषस्रोतसि स्नानमानसः । भूत्वा च निर्वृतो योगी, प्रारेभे मन्त्रसाधनम् ॥३६१।। आगच्छन् राक्षसः प्रेतो, वेतालोऽन्योऽपि कश्चन । वार्यस्त्वयेत्यथाऽऽदिक्षदारामतनयं स हि ॥३६२॥ मण्डलाऽन्तः प्रविश्याऽथ, योगी मन्त्रं मुदाऽस्मरत् । अभूच्च क्षोभो मन्त्राऽधिष्ठात्र्या देवास्ततः पुरः ॥३६३।। आजग्मुर्भूतवेतालशाकिनीप्रेतराक्षसाः । परीक्षाऽर्थं ततो वQर्मण्डलं परितः क्षणात् ॥३६४॥ आरामनन्दनकथानकम् ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy