SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ नाऽयं मे स्यादुजा स्वप्नश्चिन्तास्वप्नोऽपि नैष मे । किन्तु सत्य इवाऽऽभाति, देवतादर्शितो ह्यसौ ॥३४१॥ अत एव हि मेऽङ्गेषु, तापो लानिर्मनोभ्रमः । तत् किं कुर्वे ? कथं तत्र, याम्यहं कञ्चुकं विना ? ॥३४२॥ यद्वा कञ्चकवार्ताऽपि, मम शान्ता प्रियां विना । येन सा मद्वियोगेन, चिताऽऽरूढा भविष्यति ॥३४३॥ स्त्रीहत्यापातकाऽऽकान्ताऽऽत्मानं मां वोढमक्षमा । क्षमाऽपि तद्गिरौ क्वाऽपि, विधायाऽनशनं म्रिये ॥३४४॥ इति निश्चित्य चित्ते स्वे, सागरश्रेष्ठिनं ततः । अनुज्ञाप्य क्षणाद्गन्तुं, चचाल स गिरिं प्रति ॥३४५॥ गच्छंश्च त्वरितं तत्र, पर्वतोपत्यकातले । इतस्ततः स योगीन्द्रानद्राक्षीत् कर्म कुर्वतः ॥३४६।। तथाहि- मृगत्वचि समासीनः, कृत्वाऽऽसननियन्त्रणम् । योगपट्टपरीवेषः, कश्चिदात्मानमीक्षते ॥३४७।। कश्चित्पवनकाऽऽह्लादिनादाऽऽकृष्टमृगव्रजः । उच्चैर्मधुरमन्द्रां च, चर्यागीतिमसूत्रयत् ॥३४८॥ कश्चिदप्यस्थिकूटोच्चपल्यङ्कविलुलद्वपुः । स्वेच्छया भैक्ष्यमुत्तानशयो भुङ्क्ते हसन् रटन् ॥३४९॥ कश्चित्करालप्रज्वालखादिराऽङ्गारखातिकाम् । मृनन् पद्भ्यामथाऽऽङ्गारान्, करेणाऽऽदाय चाऽघसत् ॥३५०॥ अन्त्रसूतितहारेषु, वह्निकुण्डेषु कश्चन । जुहोति मांसखण्डानि, श्रद्धावान् मन्त्रसिद्धये ॥३५१॥ इति पश्यन् जगामैष, धीरत्वाद्योगिनोऽन्तिके । दृष्टश्च योगिना दूरात्, सम्पूर्णलक्षणो मुदा ॥३५२॥ ८० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy