________________
आरामतनयः सोऽपि सागर श्रेष्ठिनाऽन्यदा । पुण्यधीर्व्यवसायानामत्युत्कर्षः स एष ते ॥३०६॥
तदेतस्य हि वित्तस्य, क्लेशप्राप्तस्य नश्यतः । धर्माऽर्थकामैर्भुञ्जानः, साफल्यं दानतः कुरु ॥३०७॥ इत्युक्तः परमाऽऽनन्दमीयुषा चेतसा ततः । दध्यावेष स्वयं श्रेष्ठी, ममाऽनुज्ञातवान् धनम् ॥३०८|| तदहं स्वेच्छया यच्छाम्यात्मनः पुण्यहेतवे । यद्दत्तं श्रेष्ठिना मह्यं, तन्मदीयं परस्य न ॥ ३०९॥
कञ्चुकाऽनुपदीभूत्वा, भ्रान्तः सर्वत्र चित्तवत् । नाऽऽप्नुवं कञ्चकं क्वाऽपि, बोधिबीजमभव्यवत् ॥३१०॥ तद्दुःखस्य विनोदाय, स्वबुद्धिप्रेक्षणाय च । पुण्येयत्तावबोधायाऽरुक्षं मृत्युसखीं तरीम् ॥३११॥ दैवादासाद्य रत्नानि, तेजश्च यशसाऽञ्चितम् । रत्नच्छगणवृत्तान्ताद्भूपं विस्मापयं खलु ॥३१२ ॥ अधुना निजदोर्दण्डाऽर्जितद्रव्यव्ययादहम् । सप्तक्षेत्र्यां कृतश्रद्धो बोधिबीजं लभेय चेत् ॥३१३॥ इति ध्यात्वाऽर्हतां चैत्यमालास्वष्टाह्निकां व्यधात् । राज्ञे दत्त्वा धनं मूलादमारिं पर्यघोषयत् ॥३१४॥ अवारितमहादानडिण्डिमं पर्यवादयत् । कारागारग्रहग्रस्तगुप्सिकायानमोचयत् ॥३१५॥
हर्षाऽश्रुपूरसम्पूर्ण श्रद्धासिन्धुशुचीकृतः । तपश्चारित्रपात्राणि, प्रासुकान्नाद्यलाभयत् ॥३१६॥
धन्यम्मन्यस्ततः सोऽथ सङ्घातघातकर्मठम् । भोजनाऽऽच्छादनाऽऽद्यैश्च श्रीसङ्कं पर्यपूपुजत् ॥३१७॥
आरामनन्दनकथानकम् ।
७७