________________
द्विनिषिद्धस्त्वयाऽप्येभिरेधसे हि वणिक्सुतैः । सरत्नानीत्यजानद्भिरात्तानि गोमयानि ते ॥२९४।। तानीह भस्मसात्कृत्वा, त्यक्तान्यम्भोधिपाथसि । न तेष्वेकमप्युद्ववे, भक्तवत्कृपणौकसि ॥२९५।। यदेकं लभते रत्नमारामसुत ! तावकम् । विक्रीयमाणाः सर्वेऽपि, न तल्लभामहे वयम् ॥२९६।। पत्राऽक्षराणि संवीक्ष्य, वीक्षाऽऽपन्ना वयं ततः । त्वां चाऽननुज्ञाप्य पण्यं, नाऽऽनयामः स्ववेश्मनि ॥२९७।। एते वयं ते रत्नानि, यदि विद्मस्त्रिधाऽपि हि । ततो यत्त्वं भणस्यद्य, तं कुर्मः शपथं खलु ॥२९८॥ छगणकवृत्तं जानन्नारामसूरलुब्धधीः । कञ्चकाऽऽर्त्या निराकाङ्क्षः, स्मित्वोचे मृदु तान् प्रति ॥२९९।। किमेतदुच्यते दीनं, युष्माभिरिभ्यपुङ्गवाः !? । रत्नेभ्यो हि भवन्तो मेऽभीष्टा बिभीत माऽऽस्म तत् ॥३००॥ रत्नप्रत्यर्पणे चेद्भो !, अशक्ताः स्थ मयैव तत् । पाटितं पत्रमित्युक्त्वा, चक्रे तानकुतोभयान् ॥३०१।। यतः- उपहत्य परं कुर्वन्नात्मसमृद्धिं महानपि त्याज्यः । तिथिपातजातजन्माऽधिकमासो वय॑ते कार्ये ॥३०२॥ वस्त्रताम्बूलदानेन, सत्कृत्य प्रत्युत स्वयम् । पण्यं स्वीकुर्वतां गत्वेत्युक्त्वा स तान् व्यसर्जयत् ॥३०३।। अस्माकमपराधोऽस्मत्कुटुम्बद्रव्यघस्मरः । लीलयैवाऽमुना सोढो, निसर्गतः कृपालुना ॥३०४।। इत्युच्चैः प्रशशस्वांसस्तमारामसुतं हि ते । नत्वेभ्या वणिक्पुत्रेभ्यो, भाण्डमानाययन् गृहे ॥३०५॥
७६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।