________________
आरोप्य शकटं रत्नान्यागात् स श्रेष्ठिवेश्मनि । श्रुतस्वरूपः श्रेष्ठी तु, सम्भ्रमेण तमभ्यगात् ॥ २८२॥ सागरश्रेष्ठिनं दूराज्जोदकरोत् स कृत्यवित् । स्नेहात्तं श्रेष्ठ्यभिष्वज्य, स्वाऽर्धाऽऽसनमवीविशत् ॥२८३॥ आलापशालिनं श्रेष्ठिसागरं रचिताऽञ्जलिः । पितरं पुत्रवन्नम्रश्चाऽऽरामसूर्व्यजिज्ञपत् ॥२८४॥ वसून्यर्जितान्येतानि मया कर्मकृतेव ते । व्यवसायः फलेत् प्रायः, पुण्येन स्वामिनः खलु ॥ २८५॥ तत्त्वं गृहाण सर्वाणि, यदेषां त्वमसि प्रभुः । मया हि गच्छताऽपीति, त्वां प्रति प्रतिशुश्रुवे ॥ २८६॥ सन्तुष्टेनेव देवेन, तेनेत्युक्तः स सागरः । स्वीचकार यत्कोऽनेच्छुरागच्छद्द्रव्यमौकसि ? ॥२८७॥ इतश्चाऽन्यैर्वणिक्पुत्रैरात्मीयव्यवहारिणाम् ।
छगणानां कथाऽऽख्यायि, चिन्तासन्तानसारणिः ॥२८८॥ ततः सर्वे महेभ्यास्ते, सर्वस्वक्षतिभीतयः । सम्भूयाऽऽलोच्य किमपि, निशीयुः सागरौकसि ॥२८९॥ श्रेष्ठी च सागरस्तेनाऽऽरामपुत्रेण संयुतः । अभ्युदस्थात् समुदायो, येन गौरवमर्हति ॥२९०॥
यतः– गौरवमधिकं बिभ्रन्न महान् मान्यो जनेऽपि तु तनुत्वम् । दवपावकपूर्णेन्दू, ननु पश्यत दीपबालेन्दू ||२९१॥ यथायोग्यं च मुक्तानि, परित्यज्याऽऽसनानि ते । इष्टदेवस्येवाऽऽरामपुत्रस्याऽग्रे ह्युपाविशन् ॥ २९२॥ ऊचुर्दीनवचांसीति, शीताऽऽर्त्ता इव कम्पिनः । धीमन् ! वयमधमर्णा, बभूविम तव ध्रुवम् ॥२९३॥
आरामनन्दनकथानकम् ।
७५