________________
तेभ्योऽपि स तथा रत्नान्यादाय रचिताऽञ्जलिः । द्रष्टुं वेलातटं स्वामिन् !, प्रसीदेति व्यजिज्ञपत् ॥२७१॥ गुरोरिव तस्याऽऽदेशात्, स राजाऽऽरुह्य वाजिनम् । सांयात्रिकान् सहाऽऽदाय, कौतुकात्तत्र जग्मिवान् ॥ २७२॥ आरामतनयाऽऽतङ्काच्छुष्यत्तालुस्खलद्गिरः । भूभुजे दर्शयामासुः, स्वभाण्डं वणिजः परे ||२७३॥ अपश्यन् स नृपस्तानि, क्षणनिक्षिप्तया दृशा । गोमयोच्छ्रायमभ्यागान्मुक्तवल्गेन वाजिना ॥ २७४ ॥ ततश्चाऽऽरामपुत्रेण, द्विधा तानि विधाप्य च । वागुरेवाऽन्यवणिजां, रत्नराशिरकार्यत ॥२७५॥ रत्नराशिन् नृपः प्रेक्ष्य, परमाऽऽनन्दभागभूत् । प्रजापालकभूपाला, मोदन्ते हि जनर्द्धिभिः ॥२७६॥ ततश्च दर्शयामास, भूभुजेऽक्षरपत्रकम् । तत्रोद्धारकमद्राक्षीद्राजाऽन्येषां सहस्रशः ॥२७७॥ प्राहाऽऽरामसुतो भूपमेभ्यो लभ्यान्यमूनि हि । स्वयं दास्यन्ति चेन्नैते, तद्बो विज्ञपयिष्यते ॥ २७८॥ दानमुक्तिं प्रपद्यैषां सर्वेषां व्यवहारिणाम् । विशेषप्रसादं कृत्वाऽऽरामसूनोस्त्वगान्नृपः ॥२७९॥ गते तस्मिन् क्षणादन्यो, राजा तं रत्नपर्वतम् । द्रष्टुमागादन्तरिक्षे, वनसूस्तमवर्णयत् ॥२८० ॥
क्रीत्वा भास्करमण्डलादपि कराऽऽक्रान्तात् सुधाया दलम्, संस्कृत्याऽऽत्मनि वर्त्मनि प्रतिनिशं तद्बणिकां दर्शयन् । राकापर्वणि पर्वताऽरिनगरे लोकेऽर्थिनि स्तोकशो, विक्रीयेन्दुवणिक्सदेश्वरमहामूर्धन्य एवाऽभवत् ॥२८१॥
७४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।