SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ द्वाःस्थः कृताऽञ्जलिः प्रोचे, नाथाऽऽरामभुवाऽमुना । राजा तं वीक्ष्यमाणोऽथाऽस्मरत्तद्बुद्धिवैभवम् ॥२५९।। चेतस्यथ स दध्यौ चोत्थापितो ह्यमुना करी । बुद्धिप्रयोगः कोऽप्यस्य, नूनमत्राऽपि जृम्भते ? ॥२६०॥ निश्चित्य चेतसेत्येष, राजा दक्षशिरोमणिः । अर्गलासरलेनाऽथ, हस्तेनैकं तदग्रहीत् ॥२६१।। आरामपुत्रो मुमुदे, गोमयाऽऽदानकर्मणा । सभया सार्धमत्यर्थं, मूढाः सिष्मियिरे परे ॥२६२।। स्फोटयामास तन्नालिकेरवद्विष्टरे नृपः । अब्धिमध्यादिवाऽऽदित्यो, रत्नं प्रादुरभूत्ततः ॥२६३॥ आत्तं हि स्वधिया पूर्व, पश्चादादत्त पाणिना । स्वयं परीक्षको राजा, रत्नं वीक्ष्य मुदं ययौ ॥२६४।। अन्यान्यपि स्वयं राजा, प्रस्फोट्याऽविदितश्रमः । जग्राह तानि रत्नानि, तेषु गृध्नुर्भवेन कः ? ॥२६५।। अर्कस्येवांऽशुभी रत्नरश्मिभिः सर्वसंसदः । हर्षोत्कर्षमासेदुष्या, मुखाऽब्जानि चकाशिरे ॥२६६।। उलूकानामिवैतेषां, सांयात्रिकनृणां पुनः । उद्योतेऽपि तदातङ्कतिमिरमसृणादृशः ॥२६७।। रत्नगर्भाऽञ्जलिपुटो, नमस्कर्तुमिवोद्यतः । पप्रच्छ स्वाऽऽगतं राजाऽऽरामपुत्रं तमादरात् ॥२६८॥ स्वागतं त्वत्प्रसादान्मे, तेनेत्युक्तः पुनर्नृपः । अपृच्छत्सर्वमीदृक्षं, पण्यं किं तेऽस्ति धीधन !? ॥२६९।। ओमित्युक्त्वा स राजानं, विज्ञाप्याऽऽनाययत्ततः । शौल्किकेभ्यो गोमयानि, पश्यतां वणिजां खलु ॥२७०॥ आरामनन्दनकथानकम्। ७३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy