________________
ततश्चेक्षकलोकोऽन्यो, वीक्ष्याऽन्यपण्यसञ्चयान् । प्रपश्यन् गोमयोच्छ्रायं, जहास दत्ततालिकः ॥२४७।। आरामसूस्वरूपं तज्ज्ञात्वा श्रेष्ठ्यपि सागरः । द्रव्यव्ययजनहास्यदुःखात्तस्थौ स्ववेश्मनि ॥२४८।। अथेभ्यास्ते समादाय, सारवस्तूनि पण्यतः । भूभुजे ढौकनं चक्रुर्दानाऽल्पत्वविधित्सया ॥२४९॥ गोमयैर्भरणिं भृत्वाऽऽरामसूरपि भूपतिम् । दिदृक्षुः प्रविशन् पुर्यां, गोपुराऽध्यक्षमैक्षत ।।२५०॥ विमृश्यैष ततस्तस्मै, किमनेनेत्यगृह्णते । रक्षाऽस्य रोगघ्नीत्युक्त्वा, ह्येकं गोमयमार्पयत् ॥२५१॥ शुल्कशालामुपेत्याऽथ, नाऽन्यदस्तीति वेदयन् । तद्वत्पञ्चकुलस्याऽपि, पञ्चैतानि समर्पयन् ॥२५२॥ कर्मकृन्मस्तकाऽऽरूढगोमयैर्भरणीयुतः । आपणश्रेणिमार्गेण, नृपौकोद्वारमाययुः ॥२५३॥ [युग्मम्] वीक्ष्याऽन्योन्यं प्रहसद्भिः, पौरलोकैः स वेष्टितः । द्वाःस्थेन ज्ञापितो राज्ञः, प्राविक्षद्राजसंसदि ॥२५४॥ आयान्तं तं तथा वीक्ष्य, महेभ्यास्ते पुराऽऽगताः । आख्यन्नृपायोपहासान्नाथाऽभ्येति सुधीरसौ ॥२५५।। भरणि मोचयित्वाऽग्रे, राज्ञो निःक्षोभमानसः । नत्वा दण्डप्रणामेन, नृपं स समुपाविशत् ।।२५६।। उपायनीकृतेष्वन्यैः, सुवर्णमौक्तिकाऽऽदिषु । दृष्ट्या निभालयन् भूपोऽद्राक्षीच्छगणकान्यथ ।।२५७।। स कोपकौतुकौत्सुक्याद्वभाषे भूपतिर्भृशम् । केनेदं ढौकनं चक्रे, दुष्प्रापं वणिजा मम ? ॥२५८।।
14.44
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।