________________
वारंवारममी त्रुट्यदेधसोऽस्मात्सुमेधसः । अर्थेनाऽपि ययाचुस्ते, ततोऽप्येष ददाति न ॥२२३।। अथेन्धनं विना धान्यमाममेवाऽपि जक्षुषाम् । तेषामुदरपीडाऽभूत्, प्राणानां यमदूतिका ॥२२४।। अथ सांयात्रिकाः प्रोचुरारामसुतमादरात् । दददिन्धनमस्माकमाऽऽहारदानदो भव ॥२२५|| तेषां मध्यादथोच्छ्वस्याऽवादि केनाऽपि वाग्मिना । एवं चेन्न ददासि त्वं, तद्देाद्धारकेऽथ नः ॥२२६।। वयं हि गणयित्वैवाऽऽदास्यामो गोमयानि ते । चतुर्गुणानि दास्यामः, सम्प्राप्ताः स्वपुरं पुनः ॥२२७।। को वः प्रत्यय इत्यर्थे, तेनेत्युक्तास्तु तेऽवदन् । यः सम्यग् रोचते तुभ्यं, तं दद्मः प्रत्ययं खलु ॥२२८॥ यादृशानि मदीयानि, गोमयानि ग्रहीष्यथ । तादृशान्येव देयानीत्यर्थे कुरुत पत्रकम् ॥२२९॥ किञ्च मे मुञ्चताऽऽत्मीयं, पण्यं ग्रहणकेऽखिलम् । नाऽऽपत्रपिष्णुना भाव्यं, व्यवहारे सुमेधसा ॥२३०॥ तेनेत्युक्तं मेनिरे ते, नाऽर्थिनो हि विवेचिनः । आरामसूश्च तत्राऽर्थे, महत्पत्रमलेख्यत् ॥२३१॥ तर्यां च यानपात्रे च, सन्त्येतानि यदृच्छया । गृह्णन्तु यानि रोचन्तेऽन्वजानादिति सोऽथ तान् ॥२३२॥ अगाधाद्यानपात्रात्ते, लातुं तानि किलाऽलसाः । नावः सम्भाल्य सम्भाल्याऽग्रहीषुटुंधियो हि ते ॥२३३॥ यो यावन्त्यग्रहीत्तस्मै, तावन्त्यदधारयन्नसौ । अर्पयामास सर्वाणि, नौस्थान्यकृतसम्मदः ॥२३४॥
७०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।