________________
एतावद्भिर्दिनै राशिः, सागरश्रेष्ठिनो मया । अविदुरेणोपायानां, दायादेनेव भक्षितः ॥२११॥ गोमयान्यत्र मुक्तानि, कस्याऽर्थे हि लगन्ति भोः !। इन्धनाऽऽहरणायैव, किलाऽऽगामित्युवाच सः ॥२१२॥ हसद्भिस्तैः पुनः प्रोचे, सरलोऽस्यधुना खलु । मुञ्चैतान्यत्र तत्रैषां, किमस्त्यप्रापणिः पुरे ? ॥२१३।। वरमस्माकमाकण्ठपण्यपूर्णतरीचयात् । निधेहि वाहने किञ्चिद्, दास्यामस्तव भाटकम् ॥२१४॥ इति प्रबोधितोऽप्येतैरविशेषेण तानि सः । आदाय यानपात्रस्थः, पुरीं प्रत्यचलन्मुदा ॥२१५।। क्रमेणाऽऽगच्छतां तेषां, प्रतीपः पवनोऽभवत् । दण्डेनेवाऽऽहता गावो, व्याघुटन् वाहनान्यथ ॥२१६।। निवर्त्तितानि वात्याभिर्यानपात्राणि तूलवत् । सितपटैरुद्ग्रीवाणि, नश्यदाटिवजानि किम् ? ॥२१७।। मण्डलीपवनाऽऽवर्त्तपरिवर्तितवारिणि । आरब्धरासकानीव, परिभ्रेमुरमून्यथ ॥२१८॥ अवकूलितान्येतानि, महावारिधिमभ्यगुः । सितपटास्त्वपात्यन्त, बभूवुश्चाऽऽकुला जनाः ॥२१९।। स्मरन्तो देवतानां ते, ह्यातः सांयात्रिका मुहुः ।
मृतम्मन्या न भूयोऽप्यारोक्ष्याम इत्यमंसत ॥२२०॥ तत्रैवं तस्थुषां तेषां, पर्यवस्यदथेन्धनम् । आरामसुतमेतेऽथ, ययाचुर्गोमयानि ते ॥२२१॥ एषोऽपि प्रत्युवाचतान्, व्ययाम्येतान्यहं नहि । रिक्ते हि यानपात्रे मे, पण्यान्येतानि येन भोः ! ॥२२२॥
आरामनन्दनकथानकम् ।