SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कियद्भिर्दिवसैस्तुल्या, सा वलिद्वय्यवर्द्धत । बुद्धिस्थाल्यां तु तत्कीर्ति सिद्धये चुल्लिकेव हि ॥१९९॥ इतश्चाऽऽरामपुत्रेऽस्मिन्नुत्तीर्णे ह्यनुकञ्चकम् । सोऽबद्ध्वा नर्मदातीरे, नावं सुष्वाप नाविकः ॥२००।। भ्रमन्ती नर्मदातीरे, सा नौ रीव पुंश्चली। नर्मदास्रोतसाच्छेद्य, चालिताऽम्भोधिमापतत् ॥२०१॥ दैवयोगेन साऽम्भोधौ, प्रभ्रम्य नाविकाऽन्विता । श्रान्तेवाऽऽगत्य द्वीपेऽत्राऽविनष्टैवाऽलगत्तटे ॥२०२॥ आरामसूश्च तां वीक्ष्य, ममैषेत्युपलक्ष्य च । दधावे सम्मुखं तस्याः, स्वमातुरिव बालकः ॥२०३।। उत्तीर्णं नाविकं स्नेहादभिष्वज्य स्वबन्धुवत् । आनीय स निजाऽऽवासे, दिव्यौदनमबूभुजत् ॥२०४॥ पप्रच्छ तस्य वृत्तान्तं, मुञ्चन्नश्रूणि भूरिशः । विना रत्नस्वरूपं चाऽऽत्मवृत्तान्तमचीकथत् ॥२०५।। मिलिते नाविके तस्मिन्, वनसूर्मुमुदेऽधिकम् । परस्परं वियुक्तानां, दर्शनं सुदिनायते ॥२०६।। स्मारं स्मारं कुटुम्बं स्वं, प्रेयसीं तां तथोज्झिताम् । तस्योत्तिष्ठन् वियोगाग्निर्याऽम्भसोपशान्तवान् ।।२०७।। अथ सांयात्रिकास्तेऽपि, विधाय क्रयविक्रयम् । लाभभाजो निवृत्ता द्राग्, द्वीपेऽस्मिन् पुनराययुः ॥२०८।। पुनस्तथैव तत्राऽम्भ, आदाय ते पुरं प्रति । आकारयामासुरेनं, सोऽपि सज्जीबभूव च ॥२०९।। यानपात्रे सरत्नानि, रत्नरिक्तानि नावि च । क्षेपयंच्छगणकानि, तैरुक्तं किमिदं ननु ? ॥२१०।। ६८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy