________________
यावदायान्ति नाऽन्यानि तावद्गृह्णाम्यहं त्विमाम् । इत्यात्मम्भरिरादातुं, स्थालीं प्रत्यक्षिपत् करम् ॥१८७॥ अथाऽऽरामसुतेनाऽपि, निजपाणिः प्रसारितः । यादःपुमांश्च भावज्ञो, वार्द्धे झम्पामदात्पुनः ॥१८८॥ आगच्छन्त्यन्ययादांसि, नाऽस्त्यद्येति निवर्त्त्य सः । मायावी तं क्षणं स्थित्वा, रत्नपाणिरगात् पुनः ॥ १८९ ॥ रत्नं प्रक्षिप्य तत्पाणौ, स्थालीमादाय सम्भृताम् । करम्भं बुभुजे तुन्दपरिमृजोऽथ सोऽभवत् ॥१९०॥ आरामतनयो रत्नं, वीक्ष्य रत्नपरीक्षकः । जहर्षाऽत्यर्थं सफले, ह्युपाये को न मोदते ? ॥१९१॥ सिद्धोपायस्ततो भूयो भूयोऽपि स दिने दिने । अज्ञापयत् कर्मकृतां, करम्भाट्टमिव व्यधात् ॥ १९२॥
आनीयाऽऽनीय रत्नानि, रत्नाकरतलान्मुहुः तस्माद्यादांसि गृह्णन्ति पण्यवत्तं करम्भकम् ॥१९३॥ रत्नान्यारामपुत्रस्य, वर्द्धन्ते प्रतिवासरम् । अपत्यानीव निःस्वस्य, शिराऽम्भांस्यवटस्य वा ॥१९४॥ रत्नानि रक्षितुं तस्य, प्रियजाने: कलत्रवत् । चिन्ता रात्रेर्दिनश्रीवन्निद्रायाश्छेदिकाऽभवत् ॥१९५॥ प्रत्युत्पन्नमतिः सोऽथ, चित्ते निश्चित्य किञ्चन । आर्द्रच्छगणकेष्वन्तरेकैकं रत्नमक्षिपत् ॥१९६॥
आत्मशुश्रूषिकामुक्त्वा, मैतानि जिह्वलः खलु । सरत्नानामरत्नानां, चैषां पृथग् वलिं व्यधात् ॥१९७॥
एवं च कुर्वतस्तस्य, वलिद्वयं रराज तत् । सेतुद्वन्द्वमिवाऽऽरब्धं, लङ्घितुं दौःस्थ्यसागरम् ॥१९८॥
आरामनन्दनकथानकम् ।
६७