________________
उद्वृत्योद्वृत्य गात्रं स्वमौषधेनेव भस्मना । पाण्डुराभा बभूवुस्ते, महातपस्विनः किल || १७५।। एवं च नित्यं कुर्वाणास्तत्र ते वेल्लनक्रियाम् । अभूवन्निर्भयाः किञ्चित्क्रमेणाऽथ जलौकसः ॥ १७६॥
आरामसूस्ततः स्निग्धदधिकूरकरम्बकम् । प्रालेयशीतलं ह्येलाकर्पूरक्षोदवासितम् ॥१७७॥
अगरुधूपितक्षुद्राताम्रस्थालीतलस्थितम् । स्वयमादाय सोऽम्भोधितीरे दूरेऽमुचत्ततः ॥ १७८ ॥ युग्मं ॥
दक्षिणाऽनिलप्रेङ्खोलत्तत्सौरभमनर्गलम् ।
तथा ते निःसृत्य नासापुटेन जगृहुः क्षणम् ॥१७९।।
प्रियभावुकं तमभिव्यात्तनासापुटास्ततः । ते चेलुरुन्मुखा भृङ्गा, इव केतककाननम् ॥१८०॥ मुहुर्यान्तो मुहुः प्रत्यायान्तस्ते भयकातराः । विलम्बात् करम्बस्थालीमुपेत्याऽदुः करम्भकम् ॥१८१॥ एकैकस्वादाऽतृप्ताश्च, ते च दुष्कालरोरवत् । लिहन्ति जिह्वया स्थालीं, भुक्तोच्छिष्टमिवोतवः ॥१८२॥ द्वितीयेऽथ दिने तद्वत्तेन मुक्त करम्भ । यथाबलं विक्षिप्याऽन्यान्, यादांसि भुञ्जते श्ववत् ॥१८३॥ क्रमेणाऽऽरामपुत्रस्तु, स्वगन्धमपि साहयन् । स्थालीं करेण तां धृत्वाऽन्यदा तीरमुपाविशत् ॥१८४॥ सत्रवत्तत्र ते स्थाल्यां, ज्ञातवेला द्विजा इव । दधावुर्भोक्तुमन्योन्यं, क्षिपन्तः परितो हठात् ॥१८५॥ तेषां च स्पर्द्धयेवाऽथ, पक्षिणामिव धावताम् । वैनतेय इवाऽत्यन्ततरस्वी कश्चिदागमत् ॥१८६॥
६६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।