________________
निवर्त्तमाना गच्छेत, मामादाय सहाऽऽत्मना । इति सप्रश्रयं तान् स, समभ्यर्थ्य व्यसर्जयत् ॥ १६३॥ विसृष्टास्तेन ते तस्याऽनागत्याऽतीवदुःखिनः । ययुर्यातव्यदेशेषु, क्षेमात्सांयात्रिकाः क्रमात् ॥१६४॥ आरामतनयोऽप्येष, शुद्धबुद्धिबृहस्पतिः । कर्मकृद्भिः प्रवहणाद्व्रीह्यादीनुदतारयत् ॥१६५॥ स वीक्ष्य सर्वतो द्वीपं, काशोटजान्यचीकरत् । व्यलब्ध च स तान्येषां कर्मकृद्भ्यः पृथक् पृथक् ॥१६६॥ कर्मकृद्वेश्मनां नाऽतिदवीयस्याऽत्मनो गृहम् । कारयित्वा कर्मकरान्, व्रीहीन् पेष्टुं समादिशत् ॥१६७॥ कर्मदासीर्न्ययुक्ताऽथ, चोक्षतन्दुलकर्मणि ।
दोग्धुं चारयितुं द्वीपे सैरिभीः कञ्चिदादिशत् ॥ १६८॥
"
ददौ मानुषमानेन, कर्मकृद्भ्यः स तन्दुलान् । ग्रामवत् सोऽभवद्द्द्वीपः, प्रारब्धे रन्धनादिके ॥१६९॥ एवं च नित्यं क्षैरेयीप्रभृत्योदनभोजनात् । नित्यदीपोत्सवप्रायास्तत्रैषां यान्ति वासराः ॥ १७०॥
एकदाऽऽरामपुत्रोऽसौ नीरतीरेषु सर्वतः ।
प्रदोषसमये धीमान्, बभ्राम मुहुरेककः || १७१ || अवधार्य किमप्यन्तर्निजैः कर्मकरैः स तु । खात्रवद्वार्द्धिवेलायां, कोष्णां रक्षामचिक्षिपत् ॥ १७२॥ ततो यादःपुमांसश्च, सायं निःसृत्य वारिधेः । भस्मसौरभमाघ्रायाऽऽजग्मुस्तत्र शनैर्भयात् ॥१७३॥ पयःक्षोभितगात्रत्वाच्चण्डकण्डूकरालिताः । ततो रासभवत् तत्र, वेल्लयामासुराशु ते ॥१७४॥
आरामनन्दनकथानकम् ।
,
६५