SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अथाऽन्ये वणिक्पुत्रास्ते, ज्ञातिभिः कृतमङ्गलाः । विधाय यानपात्राणाम_द्यारुरुहुस्तथा ॥१५१॥ प्रधाने सुमुहूर्ते चाऽनुकूले वाति मारुति । कृतकोलाहलैराशु, तान्यपूर्यन्त नाविकैः ॥१५२॥ अन्वागच्छल्लघुतरीसन्दोहैस्तैरशोभि च । पृष्ठधावदपत्यौघसनाथैर्जनकैरिव ॥१५३॥ मनोवेगेन गच्छन्ति, तानि प्राप्तानि कुत्रचित् । अनूपे द्वीपेऽस्थाप्यन्त, मुक्तैः सितपटैरधः ॥१५४।। शिष्यवद्गुरुवाक्यैर्दागङ्कुशैर्मत्तदन्तिवत् । महावेगेन गच्छन्ति, स्थितान्येतानि तैः स्फुटम् ॥१५५।। मध्येऽम्भोध्यपि द्वीपेऽत्र, पीयूषसोदरं पयः । कटुदुर्जनवाग्मध्ये, किं न स्वादु सतां वचः ? ॥१५६।। द्वीपमध्यस्थकूपेभ्यस्ते सर्वे जगृहुर्जलम् । चिक्षिपुर्मणिकेष्वेते, रसं तुम्बेषु वादिवत् ॥१५७।। अहंप्रथमिकाभाजस्ते वाहनान्यपूरयन् । आरामतनयस्त्वेष, तत्र वासीव तस्थिवान् ॥१५८।। किं न पूरयसि स्वस्य, वाहनं भो ! महामते !? । इति सांयात्रिकैरुक्तः, सोऽपि तान् प्रत्यभाषत ॥१५९।। शरीरकारणं मेऽस्ति, ततो नाऽऽगन्तुमुत्सहे। इति स्थितोऽहमत्रैव, पन्थानः सन्तु वः शिवाः ॥१६०।। अथ ते सम्भ्रमात् प्रोचुश्चेत्ते शरीरकारणम् । प्रतिपालयिष्यामस्तत्, त्वां सहाऽऽगामुकं खलु ॥१६१।। अनारूढपूर्वे यानपात्रे भ्रमति मे वपुः । तन्नाऽऽरोढुं क्षमेऽहं भो !, आतङ्काऽऽकुलमानसः ॥१६२॥ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy