________________
ततश्चाऽऽरामपुत्रोऽपि, जजल्प श्रेष्ठिपुङ्गवम् । अस्ति हे तात ! मे यानपात्राऽऽरोहणकौतुकम् ॥१३९॥
तदर्पय कियद्रव्यं, वणिक्पुत्रस्तवाऽस्म्यहम् 1 सलाभं तत्त्वया ग्राह्यं, विनोदः केवलोऽस्तु मे ॥१४०॥ अग्रे दातुमनाः श्रेष्ठी, विशेषात्तेन याचितः । तस्मै लक्षप्रमाणं स, ददौ द्रव्यमुदारधीः ॥१४१॥ अथाऽऽरामसुतो व्रीहीनक्रीणाद्बहुशो धनैः । अष्टौ च महिषीर्भूरिक्षीरसप्पिविधायिनीः ॥ १४२ ॥ कर्पूरशर्करादींश्च, पदार्थानात्मनः प्रियान् । व्रीहिन्पेष्टुं यन्त्राण्यष्टौ, मुसलोदूखलं तथा ॥ १४३ ॥ स्थालीश्च रन्धनायाऽथाऽन्यद्भोजनोपयोगि च । तथैव दिव्यवस्त्राणि, शस्त्राणि प्रचुराण्यपि ॥ १४४॥ दध्रे वृत्त्या कर्मकरानष्टौ कर्मकरीस्तथा ।
आत्मशुश्रूषिकां चैकां स कात्यायनिकां स्त्रियम् ॥ १४५ ॥ त्रिभिर्विशेषकम् ॥
सप्तसितपटं यानपात्रं सोऽभाटयत्ततः । इत्थं हि व्ययता तेन, धनलक्षोऽपि वव्यये ॥१४६॥
ततोऽन्येषां महेभ्यानां, वाहनान्यभ्रियन्त च । महामूल्यैरसुप्रापैः, पण्यैश्चतुर्विधैरपि ॥ १४७॥
आरामतनयोऽप्येष, हसतो नागरान्नरान् । अवगणयन् व्रीह्यादीन्, यानपात्रेऽध्यरोपयत् ॥१४८॥
यतः– शमयति शमो बहिः क्रुधमन्तस्तु सतां सुदुर्द्धरं तेजः । उष्णं तिरयच्छैत्यं, दहति हि तुहिनस्य जगदखिलम् ॥१४९॥
सागर श्रेष्ठिनं चैषोऽनुज्ञाप्य शुभवासरे । प्रागन्यवणिक्पुत्रेभ्योऽप्याऽऽरुरोह महातरीम् ॥ १५०॥
आरामनन्दनकथानकम् ।
६३