________________
तया बुद्ध्या नृपस्तुष्टोऽस्मै दित्सुः पारितोषिकम् । तमात्मपार्श्वमानेतुमाजूहवत्सगौरवम् ॥१२७॥
प्राविशत् स नृपाहूतस्ततस्तां राजसंसदम् । पञ्चाऽङ्गप्रसादं दत्त्वा, नृपोऽवोचद्वृणीष्व भोः ! ॥१२८॥
आकार्य श्रेष्ठिनं सोऽथ, सागरं तत्र संसदि । व्यजिज्ञपन्नृपं राजन् !, दीयतामस्य तद्वरः ॥ १२९॥ राज्ञोक्तः सागर श्रेष्ठी, विमृश्य मनसि क्षणम् । ययाचे तत्पुरश्रेष्ठिपदं शाश्वतिकं नृपम् ॥१३०॥ सोऽभून्नाम्नैव प्राक् श्रेष्ठि, राज्ञा सत्यीकृतः पुनः । पौरैः सत्क्रियतेऽत्यर्थं, राजमान्यो हि पूज्यते ॥१३१॥ अनेनाऽदायि मे श्रेष्ठिपदवी नगरेऽत्र तत् । अहमस्मै ददे पुत्रीं, स्नेहो ह्यादानदानतः ॥१३२॥ ध्यात्वेति सागरश्रेष्ठी, रहस्याहूय गौरवात् । आरामसुतमाचष्ट, भृत्यवद्विहिताऽञ्जलिः ॥१३३॥ दीयमानं स्वयं राज्ञा, प्रसादं नाऽग्रहीद्भवान् । तन्मे किमस्ति यद्दत्त्वा त्वां हि सन्तोषयाम्यहम् ॥१३४॥ किञ्चैतत्प्रार्थयेऽहं त्वां, यत्कुमारी सुताऽस्ति मे । उपयच्छस्व तां कुर्वन्ननृणं मां त्वमात्मनः ॥१३५॥
अथाऽऽरामसुतस्तं प्रत्यभाषिष्ट विशिष्टधीः । परिणीतोऽस्म्यहं श्रेष्ठिन् !, स्वदेशेष्विभ्यवेश्मनि ॥ १३६ ॥
तदलं मे द्वितीयेन, कलत्रेणाधिहेतुना । प्रतिपन्नः पिताऽसि त्वं, त्वत्सुता हि स्वसा मम ॥१३७॥
अथाऽन्यदा महेभ्यानां, यानपात्राण्युदन्वति । अक्रियन्ताऽतिसज्जानि, परतीरयियासया ॥ १३८ ॥
६२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।