________________
भूपतेरिव तस्याऽथ, तमादेशं स मन्त्रिराट् । क्षणेन कारयामास, राजाऽऽदेशाद्भवेन किम् ? ॥११५॥ किमेषोऽथाऽत्र कर्तेति ?, विमृशत्सु सुधीष्वपि । हस्तिने दापयामास, सल्लक्यादि मदावहम् ॥११६॥ तडागपालि प्रस्फोट्याऽपूरि तत् स्थानमम्बुभिः ।। पयस्यमाने तत्रैष, हस्ती बकस्थलायते ॥११७॥ वशां विहितशृङ्गाऽऽरामक्षिपत्तत्र पाथसि । लोकमुत्तारयामास, पाल्याः स राजपूरुषैः ॥११८।। सल्लकीभक्षणोद्भूतमहामदवशंवदः । पाथसा च लघूभूतवपुर्भारकृतोद्यमः ॥११९॥ अधस्ताच्चेष्टकाबन्धढलब्धपदस्थितिः । स हस्ती तां वशां वीक्ष्योत्थातुं गात्रमचालयत् ॥१२०॥ [युग्मम्] आरोहकैर्बहिर्भूतैः, प्रेरिता साऽथ हस्तिनी । उपेत्य करिणस्तस्योपरि स्वं करमक्षिपत् ॥१२१॥ तस्याः स्पर्शेन तत्कालकामोद्रेकमहाबलः । तया रिरंसुरुत्तस्थौ, स्वयमेव शनैः शनैः ॥१२२।। अथाऽऽरामसुतो धीमान्, हस्त्यारोहान् समादिशत् । अरे रे ! शनकैर्नीराबहिः कृषत हस्तिनीम् ॥१२३॥ एतैस्तथाकृते कोशो, वरत्रयेव वारिणः । आनीयत बहिः पृष्ठलग्नोऽयं वशया गजः ॥१२४॥ विश्रम्य मुहुराकृष्टः, स द्विपो लोहपिण्डवत् । इभ्याऽयस्कान्तपिण्ड्यव, हस्तिशालामनीयत ॥१२५।। अहो ! बुद्धिरहो ! बुद्धिरन्यबुद्धेरगोचरम् । इत्यारामसुतं राज्ञः, पुरः प्राशंसिषुर्जनाः ॥१२६॥
आरामनन्दनकथानकम्।