SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अतिस्थूलवपुर्भारादुत्थातुमक्षमक्रमः । रुद्ध्वाऽध्वानं गिरिरिव, तथैवाऽस्थात्स कुञ्जरः ॥१०३।। आधोरणेन विज्ञप्ते, स्वरूपे हस्तिनस्तथा । कुञ्जरोत्थापने राजा, बहूपायानकारयत् ॥१०४।। अधःखातेडंहिगात्रस्य, धत्ते न पदमप्यसौ । सङ्गिकाभिर्वरत्राभिरुत्पाटितोऽपि नाऽचलत् ॥१०५।। परीक्ष्य सचिवाऽऽदीनां, बुद्धि राजा त्ववादयत् । डिण्डिमं नगरस्याऽन्तरित्युद्घोषणपूर्वकम् ॥१०६।। य एनं कुञ्जरं बुद्ध्योत्थापयति सुधीर्नरः । तद्याचितं नृपो दत्ते, तज्जनाः ! श्रूयतामिति ॥१०७॥ द्विरदोत्थापने ये स्युरुपायास्ते कृताः खलु । राज्ञैवेत्यल्पधीः पौरोऽस्प्राक्षीत् कोऽपि न डिण्डिमम् ॥१०८॥ अथाऽऽरामसुतो धाम बुद्धेर्हर्षात् तमस्पृशत् । धीमद्भिः कौतुकात्पौरैर्वीक्ष्यमाणो ययौ नृपम् ॥१०९॥ प्रणम्य नृपतिं प्राह, कुञ्जरोत्थापने विभो ! । यः करोति ममाऽऽदेशं, तमाज्ञापय मन्त्रिणम् ॥११०॥ भूपोऽथ सचिवं किञ्चित्, निसृष्टाऽर्थं न्यरोपयत् । ततश्चाऽऽरामपुत्रोऽपि, द्विपोपान्तमगाद् द्रुतम् ॥१११॥ समीक्ष्य हस्तिनं दीर्घशुण्डासीत्कारमोचिनम् । गात्रांऽहिस्थानखातं तत्पूरयित्वेदमादिशत् ॥११२॥ परितः कुञ्जरं हस्तशतमानेऽत्र भूतले । दृढेष्टकोत्तानपढें, कारयाऽमात्य ! वेगतः ॥११३॥ तथेति कारिते तेन, मन्त्रिणा पुनरादिशत् । उत्तानपढें परितः, पालिमुच्चैविधापय ॥११४।। चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy