SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जिनशासनकौशल्यान्यायेनोपार्जयन् धनम् । सदाऽतिथिसंविभाग, कृत्वाऽश्नीयादलौल्यभाक् ॥१२॥ अकृताऽभिनिवेशः सन्, कुर्याद्व्यवहति निजाम् । अत्युग्रपापहेतुत्वाद्वर्जयेन्निशिभोजनम् ॥१३॥ दिनाऽऽयव्ययसंशुद्धनिश्चिन्तः समतां भजेत् । कुलशीलोत्तमैर्धर्मनिष्ठैर्गोष्ठी सदाऽऽचरेत् ॥९४॥ सम्यक्त्वभावितः श्राद्धद्वादशव्रतरङ्गितः । सामायिकधरः सान्ध्यं, स्वाध्यायविधिमाचरेत् ॥९५।। स्वदारतुष्टिभाक् स्मृत्वाऽर्हतो रात्रौ शयीत च । सर्वेषु धर्मकार्येषु, भावनां सह धारयेत् ॥९६।। सक्षेपाऽऽदित्यहःकृत्यं, श्रुत्वाऽदान्नियमान् बहून् । आजन्मकालिकांश्चातुर्मासिकान् सोऽथ शुद्धये ॥९७।। आरामतनयस्याऽथ, श्रेष्ठी वन्दनकं ददौ । सार्मिकोऽयमित्येष, भोजनाय निनाय तम् ॥९८॥ मम वेश्मनि भोक्तव्यं, सदेति श्रेष्ठिनाऽर्थितः । स तत्र पुत्रवद्भुङ्क्ते, वीक्षते नगरस्थितिम् ॥९९।। ततः सन्तापिग्रीष्मर्तुसम्पत्सङ्गविरागिणः । निर्वापयितुमाश्वेव, जनान् प्रावृडभूदिति ॥१००।। साकं केकिरुतेन गर्जितरवः पाथोभृतां श्रूयते, सार्धं प्रोषितभर्तृकाऽश्रुसलिलैरापः पतन्त्यम्बरात् । भिद्यन्ते तटिनीतटानि हृदयैरध्वन्यपुंसां समं, जम्बालाऽध्वनि नागरैः सह रविदत्ते न पादान् भुवि ॥१०१।। अन्यदा तत्पुरक्ष्मापलक्ष्मीधरस्य कुञ्जरः । पयः पीत्वा निवृत्तोऽथ, सरःपाल्यां पपात सः ॥१०२॥ आरामनन्दनकथानकम् ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy