SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मणिभित्त्यापणश्रेणिदृश्याऽन्तप्तवस्तुनि । शातकुम्भशिलाबद्धमहेभ्याऽऽवासवास्तुनि ॥८०॥ देवयात्रेक्षणव्याजात्कृतशृङ्गारविभ्रमम् । आनन्दिकामिनीवृन्दं, यत्राऽनुयान्ति कामिनः ॥८१॥ त्रिभिर्विशेषकम् ॥ ईदृक्षे नगरे तस्मिन्, रमानिलयनामनि । प्रविश्याऽऽगाज्जिनाधीशान्, वन्दितुं स जिनौकसि ॥८२॥ तं तथाविधवन्दारुं, देवान्मधुरया गिरा । अपश्यत्सागर श्रेष्ठी, पूर्वं तत्र समीयिवान् ॥८३॥ स देववन्दनाप्रान्ते, व्याख्यानं कुर्वतो गुरून् । दिनकृत्यं गृहस्थानामप्राक्षीदथ तेऽब्रुवन् ।।८४॥ सुन्यायः पुरवास्तव्यः, सुप्रातिवेश्मिकः पुमान् । शुद्धाऽऽत्मा प्रातरुत्थाय, परमेष्ठिस्तुतिं स्मरेत् ॥८५॥ शुचिगात्रांऽशुकस्त्रिर्द्विः, सकृद्वाऽप्यर्हतोऽर्चयेत् । भावनाभाविताऽऽत्मा तान्, वन्दयेच्च यथाविधि ॥८६।। ततो गुरुभ्यः श्रद्धालुर्दत्त्वा वन्दनकं शमी । प्रत्याख्यानं विदध्याच्च, वान्नियमयन्निमान् ॥८७॥ पञ्चोदुम्बरमुख्यांश्चाऽनन्तकायान् जिनोदितान् । चतुष्पां विशेषेण, ब्रह्मचर्यात्तपश्चरेत् ॥८८॥ जीवाऽभयप्रदानाऽर्थं, स्मरेद्देशाऽवकाशिकम् । शृणुयाद्धर्मशास्त्रं चाऽऽगमोक्तं कल्पितं च वा ॥८९॥ अपूर्वज्ञानग्रहणं, कुर्यात् प्रतिदिनं सुधीः । श्रद्दधानो जिनोक्तानि, तत्त्वानि परिभावयेत् ॥९०।। दानं श्रेयांसप्रमुखे, शीलं ब्राहम्यादिके स्मरेत् । तपश्च बाहुबल्यादौ, भावना भरताऽऽदिषु ॥९१।। चन्द्रप्रभचरित्रे प्रथम परिच्छेदः । ५८
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy