SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ इत्यन्तःखेदमापन्नस्तदैव क्वाऽपि पत्तने । गत्वा बाह्यप्रपायां हि, सुष्वाप श्रमभागसौ ॥ ५६ ॥ इतश्च दस्यवः केऽपि, भ्रमन्तः परितः पुरम् । प्रपायां तत्र ते जग्मुर्निशायां सर्वगा हि ते ॥५७॥ अथैकः प्राह कोप्येष, दिव्यः परिमलोऽत्र भोः ? । तत् सम्भाव्यः कश्चिदत्र, पुमान् भोगी समं स्त्रिया ॥५८॥ सज्जा भवत तद्यूयं, बन्देन ध्रियते ह्यसौ । चेन्न किञ्चित्तथाऽप्येष कर्त्ता नः सफलां निशाम् ॥५९॥ इति निभृतमालोच्य, तन्मध्यात्कोऽपि तस्करः । स्वरूपमनुकृत्याऽथ, प्रपाऽन्तः प्राविशच्छनैः ||६०॥ जिघ्रन् भूमिं परिभ्राम्यन्नपश्यत्सुप्तमेव तम् । उपेत्य श्लथग्रन्थिस्थमघ्रासीत् पुष्पकञ्चुकम् ॥६१॥ स्फोटयन्तं घ्राणां गन्धमाघ्राय क्षणमद्भुतम् । निभालयन् धनाऽऽढ्यैषोऽस्पृशत्कटिकराऽऽदिकम् ॥६२॥ अपश्यन् किञ्चनाऽप्यन्यन्निद्राभरमुपेयुषः । तस्याऽऽरामभुवोऽगृह्णात्, कञ्चुकं जीवितव्यवत् ॥६३॥ अथाऽऽनीय बहिस्थानामाख्याय च यथातथम् । भ्राम्यदनर्गलाऽऽमोदं, तेषामदर्शयत् स तम् ॥६४॥ कुर्वाणाः स्मितमूचुस्ते, गत्वरेणाऽमुना किमु । यदि नाऽस्त्यपरं किञ्चित्तन्मुञ्चैनमपि क्वचित् ॥६५॥ आरामनन्दनाऽभाग्यान्न मुमोच स तस्करः । विभातायां विभावर्यां, तेऽथ जग्मुः पृथक् पृथक् ॥६६॥ आरामसूरथोत्तस्थौ, भास्करेऽभ्युदिते सति । निमीलिताऽक्ष एवाऽयं, ग्रन्थि स्प्रष्टुं करं न्यधात् ॥६७॥ ५६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy