________________
इत्याऽऽग्रहग्रहग्रस्ता, सा नोज्झत्यात्मनो वचः । आरामसूस्तदाऽऽरुह्य, नावं कञ्चुकमन्वगात् ॥४४॥
आरामनन्दनोऽन्वेति, यथा यथा तथा तथा । शीघ्रशीघ्रतराऽऽवेगः, कञ्चको याति हंसवत् ॥४५॥ बभूव रजनी नद्यामित्थं हि गच्छतोस्तयोः । दवीयोदेशतीरेऽथ, किञ्चिदस्थात् स कञ्चुकः ॥४६॥ आरामसूस्तमादातुं, किल व्यापारयत्करम् । तत्कञ्चुकशिराः काचित्, स्त्री नीरान्निरगाद्बहिः ||४७|| आरामनन्दनो दध्यावहो ! किमिदमद्भुतम् ? । यददृष्टचरी नद्यां, मग्नेयं कियदागमत् ॥४८॥ भवतु तावत् पश्यामि, क्वैषा यातीति चेतसा ? | मुक्त्वा च नाविकं नावि, स तामन्वलगत्स्वयम् ॥४९॥ नर्मदातीरमध्यास्ते, कालिका नाम देवता । तस्या आयतने स्त्री सा, जगामाऽऽरामसूश्च सः ॥५०॥ सा तं कुसुमनिर्मोकं, कालिकां पर्यधापयत् । ऊचे कृताऽञ्जलिर्देवि !, मम क्षेमङ्करा भवेः ॥ ५१ ॥ इत्युक्त्वा सा विनिःसृत्य, बहिर्द्रुतपदं ययौ । अभून्निर्माल्यमित्येष, देव्याः कञ्चुकमग्रहीत् ॥५२॥ ततश्च हर्षवान् यावदभ्येति सरितस्तटम् । न तावदङ्गिनीं नाऽपि, नाविकं तत्र पश्यति ॥५३॥ इतस्ततश्च शब्दायमानो नाविकमुच्चकैः । नाऽपश्यत्तं न लेभे च तस्य प्रतिवचस्ततः ॥५४॥
गतः क्वाऽपि दुरात्माऽयं, मामुत्सृज्येह शत्रुवत् ? । गृहीतकञ्चुकः क्वाऽहं, यामिन्यां यामि चाऽधुना ? ॥५५॥
आरामनन्दनकथानकम् ।
५५