________________
तत्त्वबोधविधायिनी व्याख्या । प्रवादबाधकस्याभावात् , कर्णच्छिद्रानुपलब्धेश्च । नच दन्दशूकचक्षुषो जात्यन्तरत्खादित्युत्तरमत्रोपयोगि। अन्यत्रापि प्रकृष्टपुण्यसंभारजनितसर्वविच्चक्षुषि समानत्वात् । तदेवं धर्मादिसमस्तपदार्थग्राहकत्वेन चक्षुरादिजनितप्रत्यक्षस्य विरोधात्, न प्रत्यक्षत्वसत्संप्रयोगजवादेर्व्याप्यव्यापकभावसिद्धिरिति न प्रसङ्गविपर्यययोः प्रवृत्तिरिति न ततस्तत्प्रतिक्षेपः। एतेन यदि षड्भिःप्रमाणैः स्यात् सर्वज्ञः' इत्यादि वार्तिककृत्प्रतिपादितं प्रसङ्गसाधनाभिप्रायेण युक्तिजालमखिलं निरस्तम्। व्याप्तिप्रतिषेधस्य पूर्वोक्तप्रकारेण विहितत्वात् । यच्च किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादित्यादि, तद् धूमादग्न्यनुमानेऽपि समानम् । तथाहि। अत्रापि वक्तुं शक्यम् , किं साध्यधर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्त इत्यादि यावसिद्धः प्रतिबन्धोऽसर्वज्ञत्ववक्तृत्वयोरग्निधूमयोरिवेति पर्यन्तम् । तदप्ययुक्तम् । यतोऽसर्वज्ञत्ववक्तृत्वयोरिव नामिधूमयोः कार्यकारणत्वप्रतिबन्धस्य, तद्राहकप्रमाणस्य वा भावः । नहि वह्निः सद्भावे धूमो दृष्टस्तदभावे च न दृष्ट इत्येतावता धूमस्याग्निकार्यत्वमुच्यते, किन्तु
“कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः" । नचासौ दर्शनादर्शनमात्रगम्यः, किन्तु विशिष्टात्प्रत्यक्षानुपलम्भाख्यात्प्रमा. णात् । प्रत्यक्षमेव प्रमाणं प्रत्यक्षानुपलम्भशब्दाभिधेयम् , तदेव कार्यकारणाभिमतपदार्थविषयं प्रत्यक्षम्; तद्विविक्तान्यवस्तुविषयमनुपलम्भशब्दाभिधेयम् ; कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तद्भावसाधकं, कदाचित्प्रत्यक्षपुरःसरोऽनुपलम्भः । तत्रायेन येषां कारणाभिमतानां सन्निधानात् प्रागनुपलब्धं सद् धूमादि, तत्सन्निधानादुपलभ्यते; तस्य तत्कार्यता व्यवस्थाप्यते । तथाहि । एतावद्भिः प्रकारैर्धूमोऽमिजन्यो न स्यात; यद्यग्निसन्निधानात्प्रागपि तत्र देशे स्यात्, अन्यतो वाऽऽगच्छेत्, तदन्यहेतुको वा भवेत् ; तदेतत्सर्वमनुपलम्भपुरस्सरेण प्रत्यक्षेण निरस्तम् । एतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसन्निधानानन्तरमुपलभ्यमानस्य तत्कार्यता स्यादिति निरस्तम् । तथाहि । तत्रापि यदि रासभस्य तत्र प्रागसत्त्वम्, अन्यदेशादनागमनम्, अन्याकारणत्वं च निश्चेतुं शक्येत; तदा स्यादेव कुम्भकारकार्यता; केवलं तदेव निश्चेतुमशक्यम् । एवं तावदनुपलम्भपुरस्सरस्य प्रत्यक्षस्य तत्साधनवमुक्तम् । तथा प्रत्यक्ष