________________
सम्मतितोल्यप्रकरणस्यविशेषणत्वेन ग्रहणेऽतीन्द्रियधर्मादेरपि ग्रहणप्रसङ्गात् प्रसङ्गसाधनतद्विपर्यययोरप्रवृत्तिः स्वयमेव प्रतिपादिता स्यात्, नत्वयमेवात्र दोषः । कालविप्रकृ. ष्टार्थग्राहकत्वेन इन्द्रियजप्रत्यक्षस्य प्रतिपादयितुमस्माभिरभिप्रेत इति कस्यात्रोपालम्भः । अथ वर्तमानकालसंबद्धे विशेष्ये पुरोवर्तिनि व्यापारक्च्चक्षुस्तद्विशे. षणभूतेऽतीन्द्रियेऽपि पूर्वकालदर्शनादौ प्रवर्तते । अन्यथा चक्षुर्व्यापारानन्तरं पूर्वदृष्टं पश्यामीति विशेष्यालम्बनं प्रत्यभिज्ञानं नोपपद्येत । नागृहीतविशेषणा विशेष्ये बुद्धिरुपजायते, दण्डाग्रहण इव दण्डिबुद्धिः । नच धर्मादाक्यं न्यायः संभवतीति चेत् । ननु धर्मादेः किमतीन्द्रियत्वाञ्चक्षुरादिनाऽग्रहणं, उत अविद्यमानत्वात् , आहोस्त्रित् अविशेषणत्वात् । तत्र नाद्यः पक्षः।अतीन्द्रियस्याप्यतीतकालादेग्रहणाभ्युपगमात् । नाप्यविद्यमानत्वात्।भाविधर्मादेरिवातीतकालादेरविद्यमानत्वेऽपि प्रतिभासस्य भावात्। अथाविशेषणवाडर्मादेरप्रतिभासः। तदप्यसङ्गतम्। सर्वदा पदार्थजनकत्वेन, द्रव्यगुणकर्मजन्यलेन च धर्मादेः सर्वपदार्थविशेषणभावसंभवात्। अतीतातीन्द्रियकालादेरिव तस्यापि विशेष्यग्रहणप्रवृत्तचक्षुरादिना ग्रहणसंभव इति कथं धर्म प्रत्यानिमित्तत्वप्रसङ्गसाधनस्य, तद्विपर्ययस्य वा संभवः। तथा प्रश्नादिमन्त्रादिद्वारेण संस्कृतं चक्षुर्यथा कालविप्रकृष्टपदार्थग्राहकमुपलभ्यते, तथा धर्मादेरपि यदि ग्राहकं कस्यचित्स्यात्, तदान कश्चिद्दोषः। अपिच । अनालोकान्धकारव्यवहितस्य मूषिकादेर्नक्तंचरवृषदंशादेश्चक्षुर्यथा ग्राहकमुपलभ्यते, तथा यद्यतीन्द्रियातीतानागतधर्मादिपदार्थसाक्षात्कारि कस्यचित्तदेव स्यात् , तदाऽत्रापि को दोषः। नच जात्यन्तरस्यान्धकारव्यवहितरूपादिग्राहकं चक्षुर्दृष्टं, न पुनर्मनुप्यधर्मण इति प्रतिसमाधानमत्राभिधातुं युक्तम् । मनुष्यधर्मणोऽपि निर्जीविकादेव्यविशेषादिसंस्कृतं चक्षुः समुद्रजलादिव्यवहितपर्वतादिग्रहणे समर्थमुपलभ्यत इति धर्मादेरपि देशकालस्वभावविप्रकृष्टस्य कस्यचित्पुरुषविशेषस्य पुण्यादिसंस्कृतं चक्षुरादि ग्राहकं भविष्यतीति न कश्चित् दृष्टस्वभावव्यतिक्रमः। अथ चक्षुरादेः करणस्य प्रतिनियतरूपादिविषयत्वेनान्यकरणविषयग्राहकले खार्थातिक्रमो व्यवहारविलोपी स्यात् । ननु श्रूयत एव चक्षुषा शब्दश्रवणं प्राणिविशेषाणाम् ; 'चक्षुःश्रवसो भुजङ्गाः' इति लोकप्रवादात् । मिथ्या स प्रवाद इति चेत् । नैतत्।