________________
९७
तत्त्वबोधविधायिनी व्याख्या । त्तिप्रतिपादनद्वारेण यदभावाख्यप्रमाणप्रवृत्तिप्रतिपादनं, तत्तावावेदकखतन्त्राभावाख्यप्रमाणाभ्युपगमव्यतिरेकेणासंभवद्भवतां मिथ्यावादितां सूचयति । यदप्यवादि । तथाच प्रसङ्गसाधनाभिप्रायेण भगवतो जैमिनेः सूत्रमित्यादि । तदप्यसङ्गतम् । यतः प्रसङ्गसाधनस्य, तत्पूर्वकस्य च विपर्ययस्य व्याप्यव्यापकभावसिद्धौ यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः; व्यापकनिवृत्तितो व्याप्यनिवृत्तिरवश्यंभाविनी च प्रदर्श्यते, तत्र यथाक्रमं प्रवृत्तिः । अत्र तु प्रत्यक्षवस्य सत्संप्रयोगजलेन, तस्य च विद्यमानोपलम्भनलेन, तस्यापि धर्मादिकं प्रत्यनिमित्तत्वेन क व्याप्यव्यापकभावावगमः, येन प्रसङ्गतद्विपर्यययोः प्रवृत्तिः स्यात् । ननूक्तमेवैतत् स्वात्मन्येव सत्यमुक्तम्, नतु युक्तमुक्तम्। अयुक्तता च सर्व चक्षुरादिकरणग्रामप्रभवं प्रत्यक्षं सन्निहितदेशकालपदार्थान्तरस्वभावाविप्रकृष्टप्रतिनियतरूपादिग्राहकं सर्वत्र सर्वदा चेति न व्याप्यव्यापकभावग्राहक प्रमाणमस्ति, विपर्ययश्वोपलभ्यते । योजनशतविप्रकृष्टस्यार्थस्य ग्राहकं संपातिगृध्रराजप्रत्यक्षं रामायणभारतादौ भवत्प्रमाणत्वेनाभ्युपगते श्रूयते, तथेदानीमपि गृध्रवराहपिपीलिकादीनां चक्षुःश्रोत्रघ्राणजस्य प्रत्यक्षस्य यथाक्रमं रूपशब्दगन्धादिषु देशविप्रकृष्टेषु प्रवृत्तिरुपलभ्यते। तथा कालविप्रकृष्टस्याप्यतीतकालसंबन्धिलस्य, पूर्वदर्शनसंबन्धित्वस्य च स्मरणसव्यपेक्षलोचनादिजन्यप्रत्यभिज्ञाप्रत्यक्षग्राह्यत्वं पुरोव्यवस्थितेऽर्थे भवताऽभ्युपगम्यते ।
अन्यथा"देशकालादिभेदेन तदाऽस्त्यवसरो मितेः ।
इदानींतनमस्तित्वं नहि पूर्वधिया गतम्” ॥ १॥ इत्यादिवचनसंदर्भेण प्रत्यभिज्ञाप्रत्यक्षस्यागृहीतार्थाधिगन्तृत्वं पूर्वापरकालसंबन्धित्वलक्षणनित्यत्वग्राहकत्वं च प्रतिपाद्यमानमसङ्गतं स्यात् । अथातीतातीन्द्रियकालसंबन्धित्वं, पूर्वदर्शनसंबन्धित्वं वा वर्तमानकालसंबन्धिनः पुरोव्यवस्थितस्यार्थस्य यदि चक्षुरादिप्रभवप्रत्यभिज्ञानेन गृह्यते, तदा
“संबद्ध वर्तमानं च गृह्यते चक्षुरादिभिः। इति वचनं विरुद्धार्थ स्यात् । तथाऽतीन्द्रियकालदर्शनादेर्वर्तमानार्थ