________________
१०..
सम्मतिताख्यप्रकरणस्यपुरस्सरोऽनुपलम्भोऽपि तत्साधनो, येषां सन्निधाने प्रवर्त्तमानं तत्कार्य दृष्टं, तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते तत्तस्य कारणमितरत्कार्यम् । नचाग्निकाष्ठादिसन्निधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽस्ति; अग्न्यादौ सपनीते भवत्यनुपलम्भः । एवं परस्परसहितौ प्रत्यक्षानुलम्भावभिमतेष्वेव कार्यकारणेषु निःसन्दिग्धं कार्यकारणभावं साधयतः, सर्वकालं चामिसन्निधाने भवतो धूमस्यानमिजन्यत्वं कदाचित्नदसतोरजन्यत्वेनाहेतुकत्वेनादृश्यहेतुकत्वेन वा भवेत् । तत्र न तावत्प्रथमः पक्षः । असतो जन्यत्वात् । सदेव च न जन्यते इति त्वदभिप्रायात, सत एव जन्यमानत्वानुपपत्तेः, कार्यस्य च कादाचित्कत्वेन सिद्धत्वात् । नाप्यहेतुकत्वम् । कादाचित्कत्वेनैवाहेतुत्वे तदयोगात् । नाप्यदृश्यहेतुकत्वम् । धूमस्याग्न्यादिसामग्यन्वयव्यतिरेकानुविधानात् । अथापि स्यात्, अदृश्यस्यायं स्वभावो यदग्न्यादिसन्निधान एव धूम, कर्पूरो'दिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति, तत्किमग्निमन्तरेण कदाचिद् धूमोत्पत्तिदृष्टा, येनैवमुच्यते । नेति, चेत् , कथं नाग्निकार्यों धूमः । तदावे भावात् । धूमोत्पत्तिकाले च सर्वदा प्रतीयमानोऽग्निः, काकतालीयन्यायेन व्यवस्थित इत्यलौकिकम् । अथ स एवादृश्यस्वभावो यदग्मिसन्निधान एव धूमं करोति । ननु यद्यग्निंना नासावुपक्रियते, किममिसन्निधानात् न पूर्व पश्चात् वा धूमं विदधाति; नचान्यदा करोतीति तस्य तज्जन्यस्वभावसव्यपेक्षस्य धूमजनने तदेवं पारंपर्येणाग्मिजन्यत्वं धूमस्य। किंच। यथा देशकालादिकमन्तरेण धूमस्यानुत्पत्तेस्तदपेक्षा प्रतीयते, तथाऽमिमन्तरेणापि धूमस्यानुत्पत्तिदर्शनात्तदपेक्षा केन वार्यते; तदपेक्षा च तत्कार्यतैव । यथा चादृश्यभावे एव धूमस्य भावात्तजन्यत्वमिष्यते, तथा सर्वदाऽग्निभावे एव धूमस्य भावदर्शनात्तजन्यता किं नेष्यते; यावतां च सन्निधाने भावो दृश्यते तावतां हेतुत्वं सर्वेषामित्यग्न्यादिसामग्रीजन्यवाद् धूमस्य कुतोऽभिव्यभिचारः। नचायं प्रकारोऽसर्वज्ञत्ववक्तृत्वयोः संभवति। असर्वज्ञत्वधर्मानुविधानस्य वचने अदर्शनात् । तथाहि । यदि सर्वज्ञत्वादन्यत्पर्युदासवृत्त्या किञ्चिज्ज्ञत्वमसर्वज्ञत्वमुच्यते, तदा तद्धर्मानुविधानादर्शनान्न तज्जन्यता वचनस्य । नहि किश्चिज्ज्ञत्वतरतमभावात वचनस्य तरतमभाव उपलभ्यते । तथाहि ।