________________
तत्त्वबोधविधायिनी व्याख्या । किञ्चिज्ज्ञत्वं प्रकृष्टमत्यल्पविज्ञानेषु कृम्यादिषु । नच तेषु वचनप्रवृत्तेरुत्कर्ष उपलभ्यते। अथ प्रसज्यप्रतिषेधवृत्त्या सर्वज्ञत्वाभावोऽसर्वज्ञत्वं तत्कार्य तुवचनम्, तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात; नच कदाचनापि तत्तत्रोपलभ्यते। ज्ञानातिशयवत्सु च सकलशास्त्रव्याख्यातृषु वचनस्यातिशयभावो दृश्यते इति ज्ञानप्रकर्षतरतमाद्यनुविधानदर्शनात् तत्कार्यता तस्य; धूमस्येवाग्न्यादिसामग्रीगतसुरभिगन्धाद्यनुविधायिनो यथोक्तप्रत्यक्षानुपलम्भाभ्यां व्यवस्थाप्यते । अतएव कारणगतधर्मानुविधानमेव कार्यस्य तत्कार्यतावगमनिमित्तं, न पुनरन्वयव्यतिरेकानुविधानमात्रम् ।
तदुक्तम्:___"कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः”। इति ।
यच्च यत्कार्यत्वेन निश्चितं तत् तदभावे न कदाचिदपि भवति; अन्यथा तहेतुकमेव तन्न स्यादिति सकृदपि ततो न भवेद् भवति च; यद्यत्र निश्चिताविसंवादं वचनं, तत् तदविसंवादिज्ञानविशेषादित्यात्मन्येवासकृनिश्चितमिति नान्यतस्तस्य भावः ॥
तेन
"यद्यस्यैव गुणदोषान्नियमेनानुवर्तते । ___तन्नान्तरीयकं तत्स्यादतो ज्ञानोद्भवं वचः”॥ १॥ अथ यदि नामाविसंवादिज्ञानधर्मानुकरणतोऽविसंवादि वचनमेकं तत्प्रभवं यथोक्तप्रत्यक्षानुपलम्भतोऽवगतं, तदन्यतो न भवति;तथाप्यन्यवचनस्य तद्धर्मानुकरणतो नतत्कार्यत्वसिद्धिरिति तस्यान्यतोऽपि भावसंभवात्कुतो व्यभिचारः। न । ईदृग्भूतं वचनमीदृक्षज्ञानतः सर्वत्र भवतीति सकृत्प्रवृत्तप्रत्यक्षतोऽवगमात्। ननु सकलव्यक्यनुगततिर्यक्सामान्यानभ्युपगमे यावन्ति तथाभूतवचांसि तानि सर्वाणि प्रत्यक्षीकरणीयानि तथाभूतज्ञानकार्यतया। अन्यथैकस्यापि वचसस्तव्याप्ततयाऽप्रत्यक्षीकरणे तेनैव व्यभिचारी हेतुः स्यात्। नचैतावत्प्रत्यक्षीकरणसमर्थ प्रत्यक्षम् । तस्य सन्निहितविषयत्वात्। नचान्येषां स्वलक्षणानामनुमानात् साध्यधर्मेण व्याप्तिग्रहणम्। अनवस्थाप्रसङ्गात्। तदयुक्तम् । यतः प्रत्यक्षं तथाभूतज्ञानसन्निधान एव तथाभूतवचन