________________
१०२
सम्मतितकास्यप्रकरणस्यभेदात् प्रतिपथैष्वतथाभूतवचनव्यावृत्तं रूपमतथाभूतज्ञानव्यावृत्तज्ञानजन्यमित्यवधारयति यथाऽत्र; तथाऽन्यत्रापि देशकालादौ तथाभूतज्ञानजन्यमेवेत्यप्यवधारयति । अन्यथाऽत्रापि तथाभूतज्ञानजन्यतया न प्रत्यक्षेणावधार्येत । एवं हि तथाभूतातथाभूतज्ञानजन्यतया तथाभूतातथाभूतवचनस्य प्रतीतिः स्यात्, न तथाभूतज्ञानजन्यतयैवाप्रतीयते च तथाभूतज्ञानजन्यतया तथाभूतवचनम् तस्मादन्यत्रान्यदा च तथाभूतज्ञानादेव तथाभूतवचनमिति कुतो व्यभिचारः। यथ तद्रूपमन्यतो व्यावृत्तमवधारयितुं शक्नोति तस्यैव तदनुमानम्; यथा बाष्पादि विलक्षणधूमावधारणेऽग्न्यनुमानम्।किंच। तिर्यक्सामान्यवादिनोऽपिगोपालघटिकादौ धूमसामान्यस्याग्निमन्तरेणापि दर्शनात् व्यभिचाराशङ्कयाऽमिनियतधूमसामान्यावधारणेनैव तदनुमानम् । अग्निनियतधूमसामान्यावधारणं चामिसंबद्धधूमव्यक्त्यवधारणपुरस्सरमेव । नच सर्वदेशादावमिसंबधूमव्यक्तिविशिष्टस्य धूमसामान्यस्य केनचित्प्रमाणेनावधारणं संभवति । नच महानसादावमिनियतधूमव्यक्तिविशिष्टं धूमसामान्यं प्रतिपन्नमन्यत्रानुयायि। व्यक्तेरनन्वयात् । यच्च धूमसामान्यमनुयायि, तन्नाग्न्यव्यभिचारि । तस्मात् सामान्यव्याप्तिग्रहणवादिनामपि कथं विशिष्टधूमसामान्यं सर्वत्रामिना व्याप्तं प्रतिपन्नमिति तुल्यं चोद्यम् । अथ विशिष्टधूमस्यान्यत्रामिजन्यत्वे न किञ्चिद्वाधकमस्ति तदेवेदमिति च प्रतीतेः तत्सामान्यं प्रतीतमिष्यते । अस्माकमपि तदेवेदं वचनमिति प्रत्ययस्योत्पत्तेस्तप्रतिपन्नमिति सदृशपरिणामलक्षणसामान्यवादिनो जैनस्य, भवतो वा को विशेषोऽत्र वस्तुनीति यत्किञ्चिदेतत् । तेनाग्निगमकवेन धूमस्य योन्यायः सोऽत्रापि समान इति विशिष्टज्ञानगमकवं विशिष्टशब्दस्याभ्युपगन्तव्यम् । अथ ज्ञानविशेषग्रहणे प्रवृत्तं सविकल्पकं, निर्विकल्पकं वा ततो भिन्नमभिन्नं वा ज्ञानं न वचनविशेषे प्रवर्त्तते। तस्य तदानीमनुत्पन्नत्वेनासत्त्वात् । तदप्रवृत्तेन च ज्ञानविशेषस्वरूपमेव तेन गृह्यते, न तदपेक्षया तस्य कारणत्वम्। वचनविशेषग्राहकेणापि तत्वरूपमेव गृह्यते, न पूर्व प्रति कार्यत्वम् । कारणस्यातीतत्वेनाग्रहणात् । नाप्युभयग्राहिणा। भिन्नकालत्वेन तयोरेकज्ञानेप्रतिभासनायोगात्। अतएव स्मरणमपि न तयोः कार्यकारणभावावेदकम्। अनुभवानुसारेण तस्य प्रवृत्युपपत्तेः । अनुभव