________________
१०३
तत्त्वबोधविधायिनी व्याख्या । स्य चात्र वस्तुनि निषिद्धत्वात् । असदेतत् । यतः कार्यस्य न तावदसावनुत्पन्नस्यैव कार्यत्वं धर्मः। असत्त्वात् तदानीम्। नाप्युत्पन्नस्यात्यन्तभिन्नं, तत्तद्धर्मत्वादेव।तथा कारणस्यापि कारणत्वं कार्यनिष्पत्त्यनिष्पत्त्यवस्थायां न भिन्नमेव। नापि तयोः कार्यकारणभावः संबन्धोऽन्योऽस्ति; भिन्नकालत्वादेव। संबन्धस्य च द्विष्ठत्वाभ्युपगमात्। ततस्तत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावधर्मरूपं कारणत्वं, कार्यत्वं च गृह्यते एव क्षयोपशमवशात्।यत्र तुस नास्ति तत्र कार्यदर्शनादपि न तन्निश्चीयते, यतो नाकार्यकारणयोः कार्यकारणभावः संभवति। नापि तेनाभिन्ना उत्तरकालं तयोः कार्यकारणता कर्तुं शक्या। विरोधात्। नापि भिन्ना। तयोः स्वरूपेणाकार्यकारणताप्रसङ्गात्। नापि स्वरूपेण कार्यकारणयोरर्थान्तरभूतकार्यकारणभावखरूपसंबन्धपरिकल्पनेन प्रयोजनम्।तद्व्यतिरेकेणापि स्वरूपेणैव कार्यकारणरूपत्वात्। नच भिन्नपदार्थग्राहि प्रत्यक्षद्वयं, द्वितीयाग्रहणे तदपेक्षं कार्यत्वं कारणत्वं वा ग्रहीतुमश. क्तमिति वक्तुं युक्तम् । क्षयोपशमवतां धूममात्रदर्शनेऽपि वह्निजन्यतावगमस्य भावात्। अन्यथा बाष्पादिवलक्षण्येन तस्यानवधारणात्, ततोऽनलावगमाभावेन सर्वव्यवहारोच्छेदप्रसङ्गात्। कारणाभिमतपदार्थग्रहणपरिणामापरित्यागवता, कार्यवरूपग्राहिणा च प्रत्यक्षेण कार्यकारणभावावगमे न कश्चिद्दोषः। न च कारणखभावावभासं प्रत्यक्षं न कार्यस्वरूपावभासयुक्तम्, प्रतिभासभेदेन भेदोपपत्तेरिति प्रेरणीयम्। चित्रप्रतिभासिज्ञानस्य नीलप्रतिभासापरित्यागप्रवृत्तपीतादिप्रतिभासस्यैकत्ववत्प्रकृतज्ञानस्यापि तदविरोधात् । नच चित्रज्ञानस्याप्येकत्वमसिद्धमिति वक्तुं युक्तम् । तथाऽभ्युपगमे नीलप्रतिभासस्यापि प्रतिपरमाणुभिन्नप्रतिभासत्वेन भिन्नत्वात् , एकपरमाण्ववभासस्य वाऽसंवेदनात्प्रतिभासमात्रस्याप्यभावप्रसङ्गात्सर्वव्यवहाराभावः स्यात् । अतः प्रत्यक्षमेव यथोक्तप्रकारेण सर्वोपसंहारेण प्रतिबन्धग्राहकमनुमानवादिनाऽभ्युपगन्तव्यम् । अन्यथा प्रसिद्धानुमानस्याप्यभावः स्यात्। अथेयतो व्यापारान् प्रत्यक्षं कर्तुमसमर्थम् ; तस्य सन्निहितविषयबलोत्पत्त्या तन्मात्रग्राहकत्वात् । तर्हि प्रत्यक्षेण प्रतिबन्धग्रहणाभावेऽनुमानेन तद्ग्रहणेऽनवस्थेतरेतराश्रयदोषसद्भावादनुमानाप्रवृत्तिप्रसङ्गतो व्यवहारोच्छेदभयादवश्यमनुमानप्रवृत्तिनिबन्धनाविनाभावनिश्चायकमपरमस्पष्टसर्वपदार्थविषयमूहाख्यं प्रमा