________________
१०४
सम्मतिताख्यप्रकरणस्यणान्तरमभ्युपगन्तव्यम् । अन्यथा सर्वमुभयात्मकं वस्त्विति कुतोऽनुमानप्रवृत्तिर्मीमांसकस्य । ततोऽसर्वज्ञत्वरागादिमत्त्वसाधने वक्तृत्वलक्षणस्य हेतोः प्रतिबन्धस्य, तत्साधकप्रमाणस्य च प्रसिद्धानुमान इवाभावान्न प्रसङ्गसाधनानुमानप्रवृत्तितः सर्वज्ञाभावसिद्धिः । विपर्ययेण वचनविशेषस्य व्याप्तत्वदर्शनाद्वि. पर्ययसिद्धिरेव ततो युक्ता । यच्च सर्वज्ञज्ञानं किं चक्षुरादिजनितमित्यादि पक्षचतुष्टयमुत्थाप्य चक्षुरादिजन्यत्वेन चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन धर्मादिग्राहकत्वायोगस्तज्ज्ञानस्य दूषणमभ्यधायि । तदप्यसङ्गतम् । धर्मादिग्राहकत्वाविरोधस्य चक्षुरादिज्ञाने प्राक् प्रतिपादितत्वात् । अभ्यासपक्षे तु यत् दूषणमभ्यधायि; न सकलपदार्थविषय उपदेशः संभवति; नापि समस्तविषयोऽभ्यास इति। तदपि न सम्यक् । “उत्पादव्ययध्रौव्ययुक्तं सत्” इति सकलपदा. थविषयस्योपदेशस्य सामान्यतः संभवात् । नचास्याप्रामाण्यम्, अनुमानादिप्रमाणसंवादतः प्रामाण्यसिद्धेः । अनुमानादिप्रवर्त्तनद्वारेण चैतदर्थाभ्यासे कथं न सकलविषयाभ्याससंभवः ॥ यदपि, नच समस्तपदार्थविषयमुपदेशज्ञानं संभवतीत्युक्तम् । तदप्यचारु । सर्वमनेकान्तात्मकं सत्त्वादित्यनुमाननिबन्धनव्याप्तिप्रसाधकप्रमाणस्य सकलपदार्थविषयस्य संभवात् । अन्यथाऽनुमानाभावस्य प्रतिपादितत्वात् । नच तज्ज्ञानवत एव सर्वज्ञत्वाद्यर्थोऽभ्यासः। सामान्यविषयत्वेनास्पष्टरूपस्यैवास्य ज्ञानस्य भावात्।अभ्यासजस्य च सकलतद्गतविशेषविषयत्वेन स्पष्टत्वान्न तदभ्यासो विफलः । यदपि तदभ्यासप्रवर्तकं चक्षुरादिजनितं यद्यतीन्द्रियविषयमित्याद्यवादि। तदपि प्रतिक्षिप्तम् । अतीन्द्रियार्थग्राहकत्वस्यान्येन्द्रियविषयग्राहकत्वस्य च प्राक् प्रतिपादनाद्व्यवहारोच्छेदाभावस्य च दर्शितत्वात्। अतीन्द्रियेऽपि च कालादौ विशेषणभूते चक्षुरादेः प्रवृत्तिप्रतिपादनाच्चेतरेतराश्रयत्वदोषस्याप्यनवकाशः पूर्वपक्षप्रतिपादितस्य । शब्दज्ञानजनितज्ञानपक्षे तु इतरेतराश्रयदोषप्रसङ्गापादनमप्ययुक्तम् । कारणपक्षे तदसंभवात।अन्यसर्वज्ञप्रणीतागमप्रभवत्वेन ज्ञानस्य कथमितरेतराश्रयत्वम् । तदागमप्रणेतुरप्यन्यसर्वज्ञप्रणीतागमपूर्वकत्वेऽनवस्था स्यात्।सा चेष्यत एव; अनादित्वादागमसर्वज्ञपरम्परायाः। यदप्यवादि। शब्दजनितं ज्ञानमस्पष्टाभं, तज्ज्ञानवतः कथं सकलज्ञत्वमिति। तदप्यसङ्गतम्। नहि