________________
तत्वबोधविधायिनी व्याख्या ।
१०५
शब्दजनितेन ज्ञानेनाभ्यासानासादितवैशधेन सकलज्ञोऽभ्युपगम्यते, येनायं दोषः स्यात् ; किन्त्वभ्यासासादितसकलविशेषसाक्षात्कारित्वलक्षणनैर्मल्यवता । अतएव प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीतानागतसूक्ष्मादिपदार्थविषयमस्तीति सर्वज्ञत्वं स्यादिति यदुक्तम् ; तदपि निरस्तम् । अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् लिङ्गजनितत्वेऽपि तज्ज्ञानस्यातीन्द्रियधर्मादिपदार्थ संबन्धानवगमात् । लिङ्गस्यानवगतसाध्यसंबन्धस्य च तस्य, धर्मादिसाध्यानुमापकत्वासंभवादित्यादि यत् ; तदप्यसङ्गतम् । अवगतधर्माद्यतीन्द्रियसाध्यसंबद्धस्य हेतोः प्रसिद्धत्वात् । तथाहि । स्वविषयग्रहणक्षमस्य ज्ञानस्य तद्ग्राहकत्वं विशिष्टद्रव्यसंबन्धपूर्वकम् ; पीतहत्पूरपुरुषज्ञानस्येव । सर्वमनेकान्तात्मकमिति सकलसामान्यविषयस्य च ज्ञानस्य तद्गताशेषविशेषाग्राहकत्वं च सुप्रसिद्धमिति भवति पौद्गलिकातीन्द्रियधर्मादिसिद्धिरतो हेतोः । यदप्युक्तम् । अनुमानज्ञानेन सकलज्ञत्वाभ्युपगमेऽस्मदादीनामपि तत्स्यात् भावनाबलातद्वैशद्ये तु कामादिविप्लुतविशदज्ञानवत इवासर्वज्ञत्वं तज्ज्ञानस्य तद्वदुपप्लुतत्वप्राप्तेरिति । तदप्यचारु । यतो भावनावलाज्ज्ञानं वैशद्यमनुभवतीत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् न सकलदृष्टान्तधर्माणां साध्यधर्मिण्यास
नं युक्तम् । तथाऽभ्युपगमे सकलानुमानोच्छेदप्रसक्तेः । नचानुमानगृहीतस्यार्थस्य भावनाबलाद्वैशयं तत्प्रतिभासिन्यभ्यासजे ज्ञानेऽनुभवतो वैपरीत्यसंभवः; येन तदवभासिनो ज्ञानस्य कामाद्युपप्लुतज्ञानस्येवोपप्लुतत्वं स्यात् । यदप्यभ्यधायि । रजोनीहाराद्यावरणापाये वृक्षादिदर्शनवद्रागाद्यावरणाभावे सर्वज्ञज्ञानं वैशद्यभाग् भविष्यति नच रागादीनामावारकत्वं सिद्धमित्यादि । तदप्यसङ्गतम् । कुड्यादीनामप्यन्वयव्यतिरेकाभ्यामावारकत्वासिद्धेः । तथाहि । सत्यस्वप्नप्रतिभासस्यार्थग्रहणे, न कुड्यादीनामावारकत्वम् । निश्छिद्रापवारकमध्यस्थितेनापि भाव्यतीन्द्रियार्थस्यान्तरावरणाभावे प्रमाणान्तरसंवादिन उपलम्भात् । कुड्यादीनां त्वावरणत्वे तद्दर्शनमसंभाव्येव स्यात् । तथा प्रतिभासेनादृष्टार्थेऽपि कुड्यादीनां नावारकत्वम् । यच्च प्रातिभं ज्ञानं जाग्रदवस्थायां, शब्दलिङ्गाक्षव्यापाराभावेऽपि श्वो भ्राता मे आगन्ता इत्याद्याकारमुत्पद्यमानमुपलभ्यते तत्र
१४