________________
१०६
सम्मतितर्द्धाख्यप्रकरणस्य
कुड्यादीनां कथमावारकत्वं; कथं वा विज्ञानस्य नातीन्द्रियविशेषभूतश्वस्तनकालाद्यवभासकत्वम्।अनिन्द्रियजस्य च ज्ञानस्य बाह्यसूक्ष्मादिपदार्थसाक्षात्कारित्वं न सिद्धम् । येन सर्वज्ञज्ञानस्यानक्षजत्वे बाह्यातीन्द्रियादिसकलपदार्थ साक्षात्करणं स्पष्टत्वं च न स्यादित्यादि प्रेर्येत । अतएव सकलपदार्थग्रहणस्वभावस्य ज्ञानस्य इन्द्रियादिजन्यत्वकृत एव प्रतिनियतरूपादिग्राहकत्वनियमोऽवसीयते । प्रातिभादौ तदजन्ये तस्याभावात् । सकलज्ञज्ञानं चातीन्द्रियमिति कथं 'येऽपि सातिशया दृष्टाः ' इत्यादि; तथा 'यत्राप्यतिशयो दृष्टः' इत्यादि च दूषणं तत्र क्रमते । नहि शब्दज्ञानस्याशेषज्ञेयज्ञानस्वभावस्य कश्चित्प्रतिनियतो रूपादिकः स्वार्थः संभवति इत्यसकृदावेदितम् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः, कथं वाऽभ्यस्यमानमप्यविशदं ज्ञानं, लङ्घनोदकतापादिवत्प्रकृष्टप्रकर्षावस्थां वैशद्यं वाऽवाप्नोतीति । नैतत्प्रेर्यम् । यतो यदि रागादीनामावारकत्वादिस्वरूपं न ज्ञायेत नित्यत्वमाकस्मिकत्वं वा तेषां स्यात्; तद्धेतूनां वा स्वरूपापरिज्ञानं नित्यत्वं वा संभाव्येत; तद्विपक्षस्य वा स्वरूपतोऽज्ञानं अनभ्यासश्च स्यात् । तदेतन्न स्यादपि, यावता रागादीनां ज्ञानावरणहेतुत्वेनावरणस्वरूपत्वं सिद्धम् ; नच तेषां नित्यत्वम् । तत्सद्भावे सर्वज्ञज्ञानस्य प्रतिपादयिष्यमाणप्रमाणनिश्चितस्याभावप्रसङ्गात् । नाप्याकस्मिकत्वम्, अतएव । नचैषामुत्पाद को हेतुर्नावगतः । मिथ्याज्ञानस्य तज्जनकत्वेन सिद्धत्वात् । नच तस्यापि नित्यत्वम् । अन्यथाऽविकलकारणस्य मिथ्याज्ञानस्य भावे प्रबन्धप्रवृत्तरागादिदोषसद्भावात् तदावृतत्वेन सर्वविद्विज्ञानस्याभावः स्यादिति स एव दोषः । आकस्मिकत्वेऽपि मिथ्याज्ञानस्य हेतुव्यतिरेकेणापि प्रवृत्तेस्तत्कार्यभूतरागादीनामपि प्रवृत्तिरिति पुनरपि सर्वज्ञज्ञानाभावो ऽहेतुकस्य च मिथ्याज्ञानस्य देशकालपुरुषप्रतिनियमाभावोऽपि स्यादिति न चेतनाचेतनविभागः । नच तत्प्रतिपक्षभूतस्योपायस्यापरिज्ञानम् । मिध्यात्वविपक्षत्वेन सम्यग्ज्ञानस्य निश्चितत्वात् । तदुत्कर्षे मिथ्याज्ञानस्यात्यन्तिकः क्षयः । तथाहि । यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य विपक्षप्रकर्षावस्थागमने भवत्यात्यन्तिकः क्षयः; यथोष्णस्पर्शस्य तथाभूतस्य प्रकर्षगमने शीतस्पर्शस्य तथाविधस्यैव । सम्यग्ज्ञानापचयतारतम्यानुविधायी च मिथ्याज्ञानापचयतरतमादिभाव इति तदुत्कर्षेऽस्यात्य