________________
तत्त्वबोधविधायिनी व्याख्या। न्तिकक्षयसद्भावात् तत्कार्यभूतरागाद्यनुत्पत्तेरावरणाभावः सिद्धः । रागादिविपक्षभूतवैराग्याभ्यासाहा रागादीनां निर्मूलक्षय इति कथं नावरणाभावः। नच लङ्घनोदकतापादिवदभ्यस्यमानस्यापि सम्यग्ज्ञानवैराग्यादेर्न परप्रकर्षप्राप्तिरिति कुतस्तद्विषये मिथ्याज्ञानाभावाद्रागादेरात्यन्तिकोऽनुत्पत्तिलक्षणः क्षयलक्षणो वाऽभाव इति वक्तुं युक्तम् । यतो लङ्घनं हि पूर्वप्रयत्नसाध्यं यदि व्यवस्थितमेव स्यात् तदोत्तरप्रयत्नस्यापरापरलङ्घनातिशयोत्पत्तौ व्यापारात् , भवेल्लङ्घनस्याप्यनपेक्षितपूर्वातिशयसद्भावप्रयत्नान्तरस्य प्रकर्षावाप्तिः। न चैवम्।अपरापरलङ्घनातिशयप्रयत्नस्य पूर्वपूर्वातिशयोत्पादन एवोपक्षीणशक्तित्वात्।अर्थतत्स्यात् , यदि तत्रापि पूर्वप्रयत्नोत्पादितोऽतिशयो न व्यवस्थितः स्यात् , तत्किमिति प्रथममेव यावल्लङ्घयितव्यं तावन्न लङ्घयति; तल्लङ्घनाभ्यासापेक्षणात् पूर्वप्रयत्नाहितातिशयसद्भावेऽपि न लङ्घनप्रकर्षप्राप्तिरिति यथा तस्य व्यवस्थितोत्कर्षता तथा ज्ञानस्यापि भविष्यति। न । यतः श्लेष्मादिना प्राक् शरीरस्य जाड्याद् यावल्लङ्घायितव्यं न तावद्व्यायामानपनीतश्ले. ष्माऽनासादितपटुभावः कायो लङ्घयति । अभ्यासासादितश्लेष्मक्षयपटुभावस्तु यावल्लङ्घयितव्यं तावल्लङ्घयतीत्यभ्यासस्तत्र सप्रयोजनः । ज्ञानस्य तु योऽभ्याससमासादितोऽतिशयः सोऽतिशयान्तरोत्पत्तौ पुनः प्राक्तनाभ्यासापेक्षो न भवतीत्युत्तरोत्तराभ्यासानामपरापरातिशयोत्पादने व्यापारात्, न व्यवस्थितोत्कर्षतेति भवति ज्ञानस्य परप्रकर्षकाष्ठा । उदकतापे तु अतिशयेन क्रियमाणे तदाश्रयस्यैव क्षयात् नातिताप्यमानमप्युदकमग्निरूपतामासादयति । विज्ञानस्य त्वाश्रयोऽत्यभ्यस्यमानेऽपि तस्मिन् न क्षयमुपयातीति कथं तस्य व्यवस्थितोत्कर्षता । नच विज्ञानमपि प्राक्तनाभ्यासादासादितातिशयं पूर्वमेव विनष्टम् ; अपराभ्यासादन्यदतिशयवदुत्पन्नमिति कथं पूर्वाभ्याससमासादितोऽतिशयो नाभ्यासान्तरापेक्षः; येन व्यवस्थितोत्कर्षता तस्यापि न स्यादिति वक्तुं युक्तम् । तत्र पूर्वाभ्यासजनितसंस्कारस्योत्तरत्रानुवृत्तेः। अन्यथा शास्त्रपरावर्तनादिवैयर्थ्यप्रसङ्गात् । नापि यदुपचयतारतम्या. नुविधायी यदपचयतरतमभावस्तस्य तद्विपक्षप्रकर्षगमनादात्यन्तिकः क्षय इत्यत्र प्रयोगे श्लेष्मणा व्यभिचार उद्भावयितुं शक्यः किल । निम्बाद्यौषधोपचारयोगात्प्रकर्षतारतम्यानुभववतस्तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्ति